________________
बृहत्कल्प-छेदसूत्रम् -२-३/९१
वृ- अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः - आचार्यादीनां गणावच्छेदिकान्तानामभोवे प्रवर्तिन्या निश्रया स्थविरा आर्थिकाः स्वयं वस्त्रग्रहणं कुर्वन्ति । तरुणीनां तु सर्वथैव वस्त्रस्याग्रहणमुत्सर्गतः, प्रवर्तिनी स्वयं तत्र गत्वा आनयति । इदमेव भावयति
૪૪૪
-
[ भा. ४१८०] साहू जया तत्थ न हो कोई, छंदेज नीया तरुणी जया य ।
पवत्तिनी गंतु सयं तु गेहे, आसंकभीया तरुणी न नेति ॥
वृ- यदा तत्राचार्यादीनां मध्यात् कोऽपि गीतार्थः साधुर्न भवति, यदा च 'निजकाः' संज्ञातकास्तरुणी: 'छन्दयेषुः ' निमन्त्रयेरन् तदा प्रवर्तिनी स्वयं तत्र गत्वा गृह्णाति । 'आशङ्काभीता च' प्रत्यपायशङ्कया चकिया तरुणीरात्मना सार्धं न नयति ॥
[ मा. ४१८१] असती पवत्तिनीए, आयरियादी व्व जं व नीसाए । आगाढकारणम्मिउ, गिहिनीसाए वसंतीणं ॥
वृ- अथं नास्ति प्रवर्तिनी तत आचार्योपाध्यायादीन् 'यं वा' सामान्यसाधुमपि 'निश्राय' निश्रां कृत्वा विहरति तनिश्रया ग्रहणं कर्तव्यम् । आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः ।। इदमेव सविशेषमाह
[ मा. ४१८२]
असती पवत्तिनीए, अभिसेगादी विवज्जए नीसा । हंति थेरिया पुन, दुगमादी दोण्ह वी असती ॥
वृ- प्रवर्तिन्या अभावे अभिषेका-गणावच्छेदिनीप्रभृतयो या गीतार्था संयत्यस्ताः स्वयं गत्वा गृह्णन्ति । "विवज्जए नीस” त्ति विपर्ययो नाम अभिषेकादयोऽपि न सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः पर्यटन्ति । अथ द्वे अपि न भवतस्ततों वक्ष्यमाणविधिना ग्रहीतव्यम् ॥ कथं पुनर्द्वयोरप्यभावः ? इत्याशङ्कयाह
[ भा. ४१८३] दुब्भूइमाईसु उ कारणसुं, गिहत्थणीसा वइणी वसंती । जे नालबद्धा तह भाविया वा, निद्दोस सन्नी व तहिं वसेज्जा ।।
वृ- 'दुर्भूतिः' अशिवम्, आदिशब्दादवमौदर्यादिपरिग्रहः, तेषु कारणेषु गृहस्थनिश्रया एकाकिमी व्रतिनी वसन्ती ये 'नालबद्धाः' तस्या एव सज्ञातकाः, ये वा 'अनालबद्धा अपि भाविताः साधुसामाचारी परिकर्मितमतयो यथाभद्रकाः ये वा निर्दोषाः' हास्य कन्दर्पादिदूषणरहिताः संज्ञिनस्तेषां गृहे वसेत् ॥
तत्र च स्थितां भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रयेत् तदा वक्तव्यम्
[भा. ४१८४] सेज्जायरो व सन्नी, व जाणति वत्थलक्खणं अम्हं ।
तेन परिच्छियमेतं, तदनुन्नातं परिग्धेच्छं ॥
वृ- शय्यातरो वा संज्ञी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सद् अहमिदं परिग्रहीष्यामि ॥
[भा. ४१८५]
पंतोदङ्कण तंग, संकाए अवनयं करेजाहि ।
अन्नासि वा दिनं, वइतं नीयं व हसिता व ॥
वृ- ततः संयत्वा समानीनं 'तर्क' शय्यातरं संज्ञिनं वा दृष्ट्वा प्रान्तः शङ्कया 'अपनयं' वस्त्रस्यैकान्ते स्थापनं कुर्यात् यद्वा ब्रूयात् - अन्यासां संयतीनां दत्तं व्रजिकां वा नीतं हसेद्वा ।। अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org