________________
४२८
। बृहत्कल्प-छेदसूत्रम् -२-३/८८ बहिर्निवसनी ६ सङ्घाटिका ७ स्कन्धकरणी ८ चेति । मध्यमस्त्रयोदशविधो भवति, तद्यथारजोहरणं १पटलकानि२ पात्रकबन्धः ३ रजस्त्राणं४ मात्रकं ४कमठकम् ६अवग्रहानन्तकं७ पट्टः ८ अर्घोरुकः ९ कञ्चकः १० चलनिका ११ औपकक्षिकी १२ वैकक्षिकी १३ चेति । जधन्यश्चतुर्विधः-मुखपोतिका पात्रकेसिरका गोच्छकः पात्रस्थापनं चेति । इत ऊर्ध्वमतिरिक्तो यउपधिःस उपग्रहोपधिरुच्यते,तमपिजघन्यादिविभागनिरुपणेनाहं वक्ष्ये। तत्रजघन्यतावदाह[भा.४०९६] पीढग निसिज्ज दंडगपमञ्जणी घट्टए डगलमादी ।
पिप्पलग सूयि नहरणि, सोहणगदुगंजहन्नो उ ।। वृ-पीठकं काष्ठमयं छगणमयं वा । निषद्या रजोहरणस्य सौत्रिकी और्णिकी चेति द्विविधा । 'दण्डकप्रमार्जनी नाम' यया वसति प्रमापते । “घट्टकः' लिप्तपात्रमसृणताकारकः पाषाणः । डगलगाः-पुतप्रोज्छनोपयोगिनो लेष्टवाः, आदिशब्दात् कुटमुख-क्षारादिपरिग्रहः । 'पिष्पलकः' क्षुरप्रः । ‘सूची' यया वस्त्रं सीव्यते । 'नखहरणी' यया नखा उद्धियन्ते । 'शोधनकद्विकं तु' कर्णशोधनं दन्तशोधनं चेति । एष जघन्य औपग्रहिकोपधि ॥अथ मध्यममाह[भा.४०९७] वासत्ताणे पनगं, चिलिमिणिपनगं दुगंच संथारे।
दंडादीपनगंपुन, मत्तगतिग पादलेणिया ॥ दृ-वर्षात्राणानां पञ्चकम्-वालमयं सूत्रमयं सूचीमयं कुटशीर्षकं छत्रकं चेति । तत्र वालमयं सूत्रमयंच प्रतीतम्, सूची-ताडपत्रसूच्यादिखुम्पकः, कुटशीर्षकंपलाशपत्रमयम्,छत्रकंवंशमयम्। चिलमिलिपञ्चकम्-वालमयी सूत्रमयी वल्कमयी कटमयी दण्डमयी चेति, पञ्चापि प्रथमोद्देशके विख्याताः । संस्तारकद्विकं शुषिरा-ऽशुषिरभेदात् । शुषिरस्तुणादिमयः, अशुषिरः काष्ठमयः । दण्डादिपञ्चकम्-दण्डको विदण्डको यष्टिवियष्टिनालिका चेति।मात्रकत्रिकंतुखेल-प्रश्रवणोच्चारमात्रकमेदात् । पादलेखनिका वटोदुम्बरप्लक्षा-ऽमलिकाकाष्ठमयी वर्षासु कर्दमापनयनी ।। [भा.४०९८] चम्मतिगं पट्टदुगं, नायब्वो मज्झिमोवही एसो।
अजाण वारए पुन, मज्झिमए होति अतिरित्तो ।। वृ-चर्मत्रिकं पुनरिदम्-आस्तरणं प्रावरणमुपवेशनं च । दवानलादिभये यद् भूमावास्तीर्यते प्रलम्बादिविकरणाय वा तदास्तरणम्, षट्पदिकाभयेयत्पायते तत्प्रावरणम्, यत्रार्थोरोगादिभि करणैरुपविश्यते तदुपवेशनम् । अथवा कृत्ति तलि वद्धश्चेति चर्मत्रिकम् । पट्टद्विकम्-संस्तारपट्ट उत्तरपट्टश्च, अथवा पर्यस्तिकापट्टः सत्राहपट्टश्चेति। तत्र पर्यस्तिकापट्टोयोगपट्टउच्यते, सत्राहपट्टस्तु विहारेउपधेः शरीरेण सह बन्धनार्थः । एष मध्यम उपग्रहोपधि साधूनां ज्ञातव्यः ।आर्याणामप्येवमेव, नवरम्-तासांजनमध्य एवोपाश्रयस्यानुज्ञातत्वात्ससागारिकेवसन्तीनां प्रश्रवणव्युत्सर्जनानन्तरमुदकस्पर्शनार्थं वारको मध्यमोपधावतिरिक्तो भवति ॥अथोत्कृष्टमाह[भा.४०९९] अक्खा संथारो या, दुविहो एगंगिएतरो चेव।
पोत्थगपनगं फलगं, बितियपदे होति उक्कोसो।। वृ-'अत्राः' अनुयोगदाने गुरूणां भङ्गचारणिकार्थमुपकरणम्। संस्तारको द्विविधः-एकाङ्गिक इतरश्च। तत्रैकाङ्गिकः-तिनिशादिकाष्ठपट्टरूपः, इतरः-दवरकावबद्धकम्बिकामयः प्रथमपदमुत्सर्ग तदपेक्षया द्वितीयपदम्-अपवादस्तत्र प्रागुक्तस्वरूपं पुस्तकपञ्चकं गृह्यते, ‘फलकं नाम' पट्टिका
Jain Education International
· For Private & Personal Use Only
www.jainelibrary.org