________________
४२४
बृहत्कल्प-छेदसूत्रम् -२-३/८८ षटकाया विराध्यन्ते ।। अथाधिकद्वारमाह[भा.४०७२] अहियस्स इमे दोसा, एगतरस्सोग्गहम्मि भरितम्मि ।
सहसा मत्तगभरणे, भारादि विगिचणियमादी ।। -प्रमाणाधिकस्य मात्रकस्येमे दोषाः-'एकतरस्य' भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते सतिपश्चामात्रके ग्रहणं कुर्यात्। सहसा वा तस्य मात्रकस्य भरणे कृते भारेण स्थाणु-कष्टकादीनि न प्रेक्षते तत्रात्मविराधना, ईर्याया अशोधने संयमविराधना । अन्यच्च द्वयोरपि प्रतिग्रहमात्रकयो तयोः 'विवेचनं' परिष्ठापनं भवेत् तत्र षट्कायविराधना । अथ न परिष्ठापयति ततोऽतिप्रचुरेण भक्षितेन ग्लानत्वं भवेत् । यत एवमादयो दोषाः अतः प्रमाणयुक्तं ग्रहीतव्यम् ।।
अथ शोधिद्वारमाह[भा.४०७३] जइ बोयणमावहती, दिवसेणं तत्तिया चउम्मासा ।
दिवसे दिवसे तस्स उ, बितिएणारोवणा भणिया।। वृ-'यति यावतोबारान् एकदिवसेनमात्रके भोजनं' भक्त-पानम्आत्मनो योग्यम् आवहित' आनयतीत्यर्थः तावन्ति चतुर्लघूनि ।अथदिवसेमात्रकंपरिभुङ्क्ते ततोद्वितीयप्रायश्चित्तेनारोपणा भणिता।किमुक्तं भवति? -द्वितीयदिवसे मात्रकंयावतोवारान्परिभुङ्क्तेतावन्ति चतुर्गुरुकाणि, एवं तृतीयेषड्लध्वु, चतुर्थेषगुरु, पञ्चमे छेदः षष्ठेमूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम्।।
गतं शोधिद्वारम् । अथापवादद्वारमाह[भा.४०७४] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए।
लहुगो लहुगा गुरुगा, चउत्थो सुद्धो उजाणओ। वृ-इयं यथा प्रतिग्रहे तथा मात्रकेऽपि वक्तव्या ।। परिभोगद्वारमाह[भा.४०७५] बाले वुढे सेहे, आयरिय गिलाण खमग पाहुणए ।
दुल्लम संसत्त असंथरंत अद्धाणकप्पम्मि॥ वृ-बालस्य वृद्धस्य शैक्षस्याचार्यस्य ग्लानस्य क्षपकस्य प्राघुणकस्य च प्रायोग्य मात्रके गृह्यते। यद्वा बाल-वृद्धादयः प्रतिग्रह हिण्डापयितुं न शक्नुवन्ति अतस्ते मात्रके भक्ते-पानमानयेयुः भुञ्जीरन् वा । गच्छसाधारणं वा दुर्लभद्रव्यं धृतादिकं मात्रके गृह्णीयात् । यत्र वा भक्त-पानं संसज्यते तत्रमात्रके गृह्यते, तद्धि संसक्तमात्रके शोधयित्वा पश्चात् प्रतिग्रहे प्रक्षिप्यते । अवमराजद्विष्टादिषु वा असंस्तरणे प्रतिग्रहे भृतेऽन्यस्मिन् लभ्यमाने मात्रके गृह्यते । अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना अध्वा प्रतिपन्न इति ख्यापनार्थम्, तत्रासंस्तरणे प्रतिग्रहे भृते सति मात्रकेऽपि गृह्यते ॥ अथ ग्रहण-द्वितीयपदद्वारे व्याख्यायेते-ग्रहणं नाम को मात्रकंगृह्यति? तत्र निर्वचनं यथाप्रतिग्रहे । द्वितीयपदंपुनरशिवादिभिकारणैः यथाकृतमात्रकस्य यत्र सम्मवस्तत्र गन्तुमशक्तौ स्वस्थान एवाल्पपरिकर्म-बहुपरिकर्मणी ग्रहीतव्ये । लक्षणादीनि द्वाराणि प्रतिग्रह इव मन्तव्यानि ॥ अल्पपरिकर्मणि सपरिकर्मणि च पात्रे लेपप्रदानं सम्भवति। अतस्तद्विषयं विधिमाह[भा.४०७६] हरिए बीए चले जुत्ते, वच्छे साणे जलहिए।
__ पुढवी संपातिमा सामा, महावाए महियाऽमिते ॥
Jain Education International
tional
For Private & Personal Use Only
www.jainelibrary.org