________________
३९८
बृहत्कल्प - वेदसूत्रम् -२-३/८८
[भा. ३९४६]
संजोययते कूड, हलं पडं ओसहे य अनोन्ने । भोयणविहिं च अत्रे, तत्थ वि नाणत्तगं बहुहा ।।
वृ- कश्चिद् लुब्धको मृगादीनां बन्धनाय कूटं रज्वादिना संयोजयति, अपरो हालिकादि क्षेत्रकर्षणाय हलं युगादिना योजयति, अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुनक्ति, कश्चित्तु वैद्यादि 'औषधानि हरीतकी - पिप्पलीप्रभृतीन्यन्यान्यानि परस्परमेकतर मीलयति, अन्यस्तु 'भोजनविधि' शालि-दालि-घृत-शालनकादिकं संयुनक्ति, तत्रापि कर्मबन्धविशेषस्य बहुधा नानात्वं प्रतिपत्तव्यम् । तथाहि यः कूटं संयोजयति तस्य सङक्लिष्टपरिणामतया तीव्रतरः कर्मबन्धः, तदपेक्षया हलं संयोजयतः स्वल्पतरः पटं संयोजयतः स्वल्पतम इत्यादि तरः कर्मबन्धः, तदपेक्षया हलं संयोजयतः स्वल्पतरः, पटं संयोजयतः स्वल्पतम इत्यादि स्वबुध्या सम्यगुपयुज्य वक्तव्यम् ॥ अथ निर्वर्त्तना-संयोजने द्वे अपि यत्र मस्भवतः तान्युपदर्शयति
[भा. ३९४७] निव्वत्तणा य संयोजणा य सगडाइएसु अ भवंति । आसजुत्तरकरणं, निव्वत्ती मूलकरणं तु ॥
वृ- निर्वर्त्तना च संयोजना च शकटादिषु द्वे अपि भवतः । तथाहि -: ह-शकटाङ्गानाम्उद्धिचक्रप्रभृतीनां या प्रथमतो घटना सा निर्वर्तना, या पुनस्तेषामेव निर्वर्त्तितानामेकत्र सङ्घातना सा संयोजना | अत्र च 'उत्तरकरणं' संयोजनारूपामुत्तरक्रियाम् 'आसाद्य' प्रतीत्य 'निर्वृत्तिः ' प्रथमतो निर्वर्त्तना मूलकरणं प्रतिपत्तव्यम् ॥ गतमधिकरणद्वारम् । अथ वीर्यद्वारमाह
[भा. ३९४८ ] देहबलं खलु विरियं, लसरिसो चेव होति परिणामो । आज देहविरियं, छट्टाणगया तु सव्वत्तो ॥
वृ- यद् 'देहबलं' संहननजनितं शरीरसामर्थ्य तत् खलु वीर्यं मन्तव्यम् । तस्य च बलस्य सध्श एव प्राणिनां परिणामो भवति । तथाहि यः सेवार्त्तसंहननी जघन्यबलो जीवस्तस्य परिणामोऽपि शुभ शुभो वा मन्द एव भवति न तीव्रः, ततः शुभा ऽशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव, अत एवास्योर्द्धगतौ कल्पचतुष्टयादूर्द्धम् अधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । एवं कीलिकादिसंहननिष्वपि भावना कार्या । इदं च देहवीर्यम् 'आसाद्य' प्राप्य षट्स्थानगताः 'सर्वत-' सर्वेष्वपि संहननेषु प्राणिनः पर्परं भवन्ति । तथाहि सेवार्त्तसंहननिषु ये सर्वजघन्यबलास्तदपेक्षया अनरेऽनन्तभागवृध्या असङ्ख्यातमागवृध्या सङ्ख्यातभागवृध्या सङ्ख्यातगुणवृध्या असत्यातगुणवृध्या अनन्तगुणवृध्या वा भवन्ति, एवं कीलिकादिष्वपि । यतः षट्स्थानपतिताः प्राणिनोऽतो देबलवैचित्र्येण परिणामवैचिव्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् ॥ बलद्वारमेव प्रकारान्तेन व्याचष्टे
[ भा. ३९४९] अहवा बालादीयं, तिविहं विरियं समासतो होति । बंधविसेसो तिण्ह नि, पंडिय बंधी अबंधी य ॥
. वृ- अथवा वीर्यं बालादिभेदात् त्रिविधम् । तत्र बालस्य असंयतस्य प्राणातिपाताद्यसंयमकरणे यद् वीर्यं तद् बालवीर्यम्, बालपण्डितस्य- देशविरतस्य संयमा-S संयमविषयं वीर्यं बालपण्डतवीर्यम्, पण्डितस्य सर्वविरतस्य सर्वसंयमविषयं वीर्यं पण्डितवीर्यम् । एतत् त्रिविधं वीर्यं समासतो भवति । एषां त्रयाणामपि बन्धविशेषः, तद्यथा - बालवीर्यवान् प्रभूततरं कर्म बघ्नाति, बालपण्डित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org