________________
उद्देशकः ३, मूलं-८८, [भा. ३९४१]
३९७
बंधा-ऽबंधविसेसो, न तुल्लबंधा य जे बंधी॥ वृ-एवमेवौपशमिके क्षायोपशमिकेतथैव क्षायिकेच भावेबन्धा-ऽबन्धविशेषः सम्यगुपयुज्य वक्तव्यः । येऽपि 'बन्धिनः' कर्मबन्धका जीवास्तेऽपिनतुल्यबन्धकाः, किन्तु प्रकृति-स्थित्यनुभावप्रदेशैः परस्परविसशकर्मबन्धकाः ।। अथाधिकरणद्वारमाह--- [भा.३९४२] अहिकरणं पुब्बुत्तं, चउब्विहं तं समासओ दुविहं ।
निव्वत्तणताए वा, संजोगे चेवऽनेगविधं ॥ वृ-अधिकरणंपूर्व-प्रथमोद्देशकेयथा निर्वर्तना-निक्षेपणा-संयोजना-निसर्जनाभेदात् चतुर्विध मुक्तं तथैव ज्ञातव्यम् । नवरं 'तद्' अधिकरणं समसतो द्विविधं भवति । तद्यथा-निर्वर्तनायां 'संयोगे वैव' संयोजनायां च । पुनरेकैकमनेकविधं भवति॥
तत्र निर्वर्तनाधिकरणमनेकविधमुपदर्शयति[भा.३९४३] एगो करेति परसुं, निव्वत्तेति नखछेदनं अवरो ।
कुंत-कणगे य वेज्झे, आरिय सूई अअवरो उ ।। वृ-'एकः' लोहकारः ‘पशुं कुठारंकरोति।अपरस्तुनखच्छेदनम्, तथा कुन्तः-प्रतीतः कणकःबाणविशेषः, तौ, चकारादपराण्यपिशक्ति-शूलप्रभृतीनि 'वेधकानि परशरीरवेधकारीणि शस्त्राणि करोति । अपरस्तु लोहकार आरिकां सूची वा करोति । तत्र यः कुठार-कुन्तकणकादीनि करोति स तीव्रकर्मबन्धमाक्, यस्तु नखच्छेदना-ऽऽरिका-सूच्यादि निर्वतयति स स्वल्पकर्मबन्धक इति।। [भा.३९४४] सूईसुपि विसेसो, कारणसूईसु सिव्वणीसुंच।
संगामिय परियाणिय, एमेव य जाणमादीसु॥ वृ-सूचीष्वपि विशेषो विद्यते-एकाः कारणसूच्योऽपराः सीवनसूच्यः । तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः कारणसूच्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो वति । यान्तु वस्त्रसीवनार्थं क्रियन्ते तासु स्वल्पतरः कर्मबन्धः । एवमेव च यानादिष्वपि वक्तव्यम् । तथाहि-किमपि यानं साझामिकं भवति, यत्रारूद्वैः सङ्ग्रामः क्रियते; अपरं तु पारियानिकं' परियानं-गमनं तत् प्रयोजनमस्येति पारियानिकम्, उद्यानादौ यस्मिन्नावटैगम्यते । तत्र सानामिकयानादीनि कुर्वतो महान् कर्मबन्धः, पारियानिकानि तु कुर्वाणस्याल्पतरः॥ आह यदि नाम अधिकरणमनेकविधम् ततस्तन्निमित्तः कर्मबन्धविशेषः कथमुपपद्यते ? यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याह[भा.३९४५] कारगकरेंतगाणं, अधिकरणं चेवतंतहा कुणति।
जह परिणामविसेसो, संजायति तेसु वत्थूसु॥ वृकारापक-कुर्वतोस्तदधिकरणमेव 'तथा' तेन रूपेण 'करोति' बुद्धिमुपजनयति यथा तेषु पशु-नखच्छेदनादिषु वस्तुषु कार्यमाणेषु क्रियमाणेषु च ‘परिणामविशेषः' सङ्किलष्टाऽसडिकलष्टरूपमध्यवसायवैचित्र्यं सजायते, यथा-कारयाम्यहमिदं पशु-कुन्त-कणकादिकम्, ततोऽनेन वैरिणंव्यापाद्य आसनःसुखमुत्पादयिष्यामीत्यादि। अतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्धविशेष इति न किञ्चिदनुपपन्नम् ।।
उक्त निर्वर्तनाधिकरणम् । अथ संयोजनाधिकरणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org