________________
उद्देशक : ३, मूलं-८१, [भा. ३७२९]
३५७ तत्र गच्छेत् । प्रवर्तिन्यां वा कालगतायामन्या काचित् तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत् ।। भण्डनद्वारमाह[भा.३७३०] अप्पन्ने अहिगरणे, विओसवेउं तहिं पसत्थं तु ।
अच्छेति खउरियाओ, संजमसारं ठवेउंजे ।। कृ-संयतीवसती गणधरस्यान्यस्य वा तथा विधोपशमनालब्धिसम्पन्नस्य गमनं प्रशस्तं भवति।। गणधरद्वारमाह[भा.३७३१] जइ कालगया गणिणी, नस्थि उ अत्रा उ गणहरसमत्था ।
एतेन कारणेणं, गणचिंताए वि गच्छेज्जा ।। वृ-यदि 'गणिनी प्रवर्तिनी कालगता, नास्ति चान्या संयती गणभरोद्वहनसमर्था, अत एतेन कारणेन गणचिन्ताकरणार्थमपि गच्छेत् ।। अथानात्मवशाद्वारमाह[भा.३७३२] अज्जं जक्खाइटुं, (व) खित्तचित्तं व दित्तचित्तं वा।
उम्मायं पत्तं वा, काउं गच्छेज्ज अप्पझं । वृ-यक्षेण आविष्टा-गृहीता यक्षाविष्टा । अपमाननया क्षिप्तं-नष्टं चितं यस्याः सा क्षिप्तचिता। या तुहर्षातिरेकेणापहृतचित्ता सा दीप्तचिता भण्यते । या तुमोहनीयकर्मोदयेन चित्तशुन्यतामुपगता सा उन्मादप्राप्ता । ईदशामा विज्ञायाचार्यो मन्त्रेण वा तन्त्रेण वा “अप्पज्झं" ति 'आत्मवशां' स्वस्थचित्तां कर्तुं संयतीवसतिं गच्छेत् ।। अग्निद्वारमाह[मा.३७३३]जइ अगनिना उ वसही, दहा इज्झइ व डज्झिहिति व ति ।
नाऊण व सोऊण व, उवघेत्तुंजे व जाएज्जा ॥ कृ यद्यग्निना संयतीवसतिर्दग्धा, दह्यते वा सम्प्रतिकाले, अथवा प्रत्यसन्नाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्वयं श्रुत्वा वा' परमुखेनाकर्ण्य तां वसतिम् ‘उपग्रहीतुं' संस्थापयितुं निर्वापयितुं वा “जे" इति पादपूरणे संयतीवसतिं ‘यायात् गच्छेत् ।। अथाप्कायद्वारमाह[भा.३७३४] नइपूरेण व वसही, वुज्झइ बूढा व वुज्झिहिति व त्ति ।
उदगभरियं व सोच्छा, उवधेत्तुं तं तुबच्चेज्जा वृ-नदीपूरेण प्रसरता वसति साम्प्रतम् उह्यते' नीयते, 'व्यूढा वा' नीता, वक्ष्यतेवा' नेष्यते, उदकेन वा वसतिभृता, एवं श्रुत्वा 'ता' वसतिम् ‘उपग्रहीतुम्' उल्लिञ्चनादिकं कर्तुं व्रजेत् ।। विचारद्वारमाह[भा.३७३५] घोडेहि व धुत्तेहि व, अहवा वि जतीवियारभूमीए ।
जयणाए व करेउं, संठवणाए व बच्चेज्जा ॥ वृ-घोडाः-चट्टाः धूर्ता-द्यूतकारादयः, तैर्वसत्याः पुरोहडे गच्छन्त्यस्ता उपसर्यन्ते ततस्तेषां सानुनयनिवारणार्थं गच्छेत्।अथवा यतीनां विचारभूमी ताः समागच्छन्ति तनिवारणार्थं गच्छति। अथवा यतनया तासां कायिकाभूमिं विचारभूमि वा कर्तुपूर्वकृताया वा संस्थापनानिमित्तं व्रजेत्।।
पुत्रद्वारमाह[भा.३७३६) पुत्तो वा भाया वा, भगिनी वा होज्ज तान कालगया।
___ अजाए दुखियाए, अनुसट्टीए वि गच्छेज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org