________________
उद्देशक : ३, मूलं-८१, [भा. ३७१०]
३५३ निस्नेहोऽलक्षणोऽभागधेयश्च मम भर्ता अभवत्, न चाहं निर्गुणा' गुणविकला, यद्वा आर्य ! यूयमपि ज्ञास्यथ मदीयं 'विशेष' सगुण-निर्गुणताविभागम् ॥ एवमुक्ते संयतो ब्रूयात्[भा.३७११] इट्ठकलतविओगे, अन्नम्मि य तारिसे अविजेते।
महतरयपभावेण य, अहमवि एमेव संबंधो ।। दृ- इष्टकलत्रस्य वियोगे सजातेऽन्यस्मिश्च तादृशे कलत्रेऽविद्यमाने महत्तरः-आचार्यो मम धर्ममाख्याति स्म, ततस्तप्रभावणाहमपि प्रव्रजितः । “एमेव" ति यथा तया सविकारमात्मीयं चरितामाख्यातं तथा संयतोऽप्येवमेव कथयति । एवं तयोः परस्परं भावसम्बन्धो भवति ।। किश्चान्यत्[भा.३७१२] किं पिच्छह सारिक्खं, मोह मे नेति मज्झ वि तहेव ।
उच्छंगगता मि मता, इहरा न वि पत्तियंतो मि॥ वृ-संयतस्तां संयती निश्चलया दृष्ट्या निरीक्षते, ततः सा ब्रवीति-किभेवं पश्यथ ? । स प्राह-मदीयभोगिन्या सह यद् भवत्याः सर्वथैव साध्यं तद् मां मोहं नयति, किमेषा सैव ? इत विभ्रमंजनयतीत्यर्थः । सा ब्रवीति-ममापि त्वं तथैव मोहं जनयसि।सपाह-किं करोमि? ममोत्सङ्गे गता-स्थिता सती सा मृता, 'इतरथा' यदि परोक्षं सा मृताऽभविष्यत् ततो देवानामि वचनेन प्रत्ययं नागमिष्यम, यथा-त्वं सा मम पत्नी न भवसीति ॥ . [भा.३७१३] इय संदंसन-संभासणेहिं भिन्नकध-विरहजोएहिं। .
सेज्जातरादिपासण, वोच्छेद दुदिट्ठधम्मति ॥ वृ- "इय" एवं यत् परस्परं सन्दर्शनं यश्च सम्भाषणं-किमिति त्वमद्य भिक्षां न गता ?' इत्यादिपृच्छारुपंताभ्याम्, तथा यास्तया सह भित्रकथाः, यश्च विरहे-एकान्ते योगः, एतैचारित्रस्य भेद उपजायते । तथा शय्यातर आदिशब्दादन्यो वा यः तत्परिजनादिस्तयोस्तथाविधं चेष्टितं पश्यति स तद्रव्या-ऽन्यद्रव्योव्रयवच्छेदं कुर्यात् । 'दुईष्टधर्माण एते' इत्येवं विपरिणाममुपगच्छेत्। अथासौ तया सह सम्पत्तिं गच्छति ततो नरकायुर्बन्धाति, तीर्थंकृतां सङ्कस्य च महतीमाशातनां विधाय बोधिलाभप्रतिबन्धकं कर्मजालमुपचिनोति । उक्तं च- .
लिंगेन लिंगिनीए, संपत्तिं जइ निगच्छई मूढो ।
निरयाउयं निबंधइ, आसायणया अबोही य।। एतत् सर्वं स्थानं निषदनं चाश्चित्योक्तम् । अथ त्वग्वर्तनादीनि पदान्यङ्गीकृत्याह[भा.३७१४] पयला निद्द तुअट्टे, अच्छि दिट्ठम्मि चमढणे मूलं ।
पासवणे सच्चित्ते, संका वुच्छामि उड्डाहो ॥ वृ.प्रचलायनं नाम-निषन्नस्य सुप्तजागरावस्था, निद्रायणंतु-निषन्नस्यैव स्वपनम्, त्वग्वर्त्तनंसंस्तारकं प्रस्तीर्य शयनम्, अक्षिचमढनं-चक्षुषोमलिनम् । एतानि कुर्वाणो यद्यपि सागारिकादिना नष्टस्तथापि चतुर्गरु, ६ष्टे तु शुङ्कायां चतुर्गुरु, निशङ्किते मूलम्, प्रश्रवणं संयतीनां कायिकाभूमौ करोति चतुर्लघु । “सच्चित्ते"त्ति संयत्वाः कायिका व्युत्सृजत्या योनौ संयतनिसृष्टं शुक्रबीजमवगाहेत ततो मूलम् । “संका वुच्छम्मि" ति तं संयतं तत्र कायिकां व्युत्सृजन्तं दृष्ट्वा सागारिकादि शङ्का [19[23]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org