________________
३०५
उद्देशक ः २, मूलं-५९, [भा. ३४८१] कुटुम्बिनां गृहेषु दृष्टाः । शेषं सर्वमपि पिण्डाभिलापेन प्राग्वदवसातव्यम् ॥
मू. (६०) अह पुन एवं जाणिज्जा-नो रासिकडाई जाव नो भित्तिकडाई कोट्टाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा कुंभिउत्ताणि वा करभिउत्ताणि वा ओलित्ताणि
वा विलित्ताणि वा लंछियाणि वा मुद्दियाणि वा पिहियाणि चा कप्पइ निग्गंधाण वा निग्गंधीण • वा वासावासं वत्थए ।
वृ-अस्य व्याख्या प्राग्वत् । नवरं कुम्भी-मुखाकारा कोष्ठिका, करभी-घटसंस्थानसंस्थिता, तयोरागुप्तानि-प्रक्षिप्य रक्षितानि कुम्भ्यागुप्तानि करभ्यागुप्तानि वा । अत्र भाष्यम्[भा.३४८२] कुंभी करहीए तहा, पल्ले माले तहेव मंचे य।
ओलित्त पिहिय मुद्दिय, एरिसए न कप्पती वासो । वृ-यत्रोपाश्रये कुम्भ्यां वा करभ्यां वा पल्ये वा माले वा मञ्चे वा चशब्दात् कोष्ठे वा प्रक्षिप्तानि पिण्डप्रभृतीनि भवन्ति, तानि चावलिप्तानि पिहितानि मुद्रितानि वा भवेयुः, ईशे न कल्पते वस्तुम् । तथा चाह[भा.३४८३] उडुबद्धम्मि अईते, वासावासे उवट्टिए संते ।
__ठायंतगाण गुरुया, कास अगीतत्थ सुत्तं तु ॥ वृ-ऋतुबद्धे काले व्यतीते वर्षावासे चोपस्थिते यद्यपि सूत्रेण तत्रोपाश्रये स्थातुमनुज्ञातं तथापि न कल्पते, यदि तिष्ठन्ति ततश्चतुर्गुरुकाः । शिष्यः पृच्छति-कस्य पुनरेतत्प्रायश्चित्तम् । सूरिराहअगीतार्थस्य । सूत्रं पुनर्गीतार्थमधिकृत्य प्रवृत्तम् । शेषं पिण्डाभिलापेन तथैव वक्तव्यम् ।।
मू. (६१) नो कप्पइ निग्गंधीणं अहे आगमनगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासियंसि वा वत्थए ।
वृ- इह निर्ग्रन्थ-निर्ग्रन्थीनां सामान्यतः सदोषा उपाश्रया उक्ताः, अथ केवलानामेव निर्ग्रन्थीनामभिधीयन्त इत्यनेन सम्बन्धेनावातस्य अस्य व्याख्या-अध.शब्द इह अवशब्दार्थे । पथिकादीनामागमनेनोपेतंतदर्थं वा गृहमागमनगृहम्।विवृतम्-अनावृतं गृहं विवृतगृहम्।वंसीमूलं नाम-गृहाद् बहिस्थितमलन्दकादिकम् । वृक्षमूलं तु वृक्षस्य-सहकारादेः मूलम्-अधोभागः। अभ्रावकाशमाकाशमुच्यते । एतेषु प्रतिश्रयेषु निर्ग्रन्थीनां वस्तुं न कल्पते इति सूत्रसङ्केपार्थः ।।
अत्र भाष्यविस्तरः[भा.३४८४] आगमने वियडगिहे, वंसीभूले य रुक्खममासे ।
ठायंतिकाण गुरुगा, तत्थ वि आणादिणो दोसा ।। वृ-आगमनगृहे विवृतगृहे वंसीमूले वृक्षमूलेऽभावकाशे च तिष्ठन्तीनां निर्ग्रन्थीनां चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा मन्तव्याः ॥ अथवा[भा.३४८५] आगमगिहादिएसुं, भिक्खुणिमादीण ठायमाणीणं ।
गुरुगादी जा छेदो, विसेसितं चउगुरू वा सिं॥ वृ-आगमनगृहादिषु भिक्षुण्यादीनां तिष्ठन्तीनां चतुर्गुरुकमादौ कृत्वा छेदं यावत्प्रायश्चित्तम्। तद्यथा-मिक्षुण्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, [1920
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org