________________
३०४
बृहत्कल्प-छेदसूत्रम् -२-२/५८ "छुट्टगुलो"त्ति आर्दो गुडः, 'द्रविकः' पिण्डगुड एव पानीयेन द्रावितः, एतदुभयमपि फाणितमुच्यते। शष्कुलिकाग्रहणेन शष्कुलिका-मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् ॥ [भा.३४७७] जा दहिसरम्मि गालियगुलेण चउजायसुगयसंभारा ।
कूरम्मि छुब्भमाणी, बंधति सिहरं सिहरिणी उ ।। वृ-दध्नः शरे गालितेन गुडेन या निष्पन्ना, अपरं च 'चतुर्जातकसुकृतसम्भारा' एलात्वक्तमालपत्र-नागकेसराख्यैश्चतुर्भिर्गन्धद्रव्यैराधिक्येनोपजनितवासा, कूरमध्ये प्रक्षिप्यमाणा शिखरं बध्नाति सा शिखरिणी उच्यते । उक्षिप्त-विक्षिप्तादिपदव्याख्या प्राग्वत्॥
अथैतेषु तिष्ठतां प्रायश्चित्तमाह[भा.३४७८] पिंडाईआइन्ने, निग्गंथाणं न कप्पई वासो ।
चउरो य अनुग्घाया, तत्थ वि आणाइणो दोसा ॥ वृ-पिण्डादिभिः शिखरिणीपर्यन्तैराकीर्णे प्रतिश्रये निर्ग्रन्थानाम् उपलक्षणत्वाद् निर्ग्रन्थीनां चन कल्पते वासः । अथ तिष्ठन्ति ततश्चत्वारोऽनुद्धाता मासाः। तत्राप्याज्ञादयो दोषा मन्तव्याः। [भा.३४७९] चउरो विसेसिया वा, दोण्ह वि वग्गाण ठायमाणाणं ।
अहवा चउगुरुगाई, नायव्वा छेयपज्जता ।। वृ-अथवा 'द्वयोरपि' निर्ग्रन्थ-निर्ग्रन्थीवर्गयोस्तत्र तिष्ठतोश्चतुर्गुरुकास्तपः-कालविशेषिताः। तद्यथा-भिक्षोश्चतुर्गुरुकंतपसा कालेन चलघु, वृषभस्य कालगुरु, उपाध्यायस्य तपोगुरु, आचार्यस्य तपसा कालेन च गुरुकम् । एवं भिक्षुणीप्रभृतीनामपि मन्तव्यम् । अथवा चतुर्गुरुकमादौ कृत्वा छेदपर्यन्ता चतुर्णामपि यथाक्रमं शोधितिव्या ।।।
मू. (५९) अह पुन एवं जाणेजा-नो उक्खित्ताईनो विक्खित्ताईनो विइकिन्नाइंनो विष्पकिनाई रसिकडाणि वा पुंजकडाणि वा कुलियाकडाणि वा भित्तिकडाणि वा लंछियाणिवा मुद्दियाणि वा पिहियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु वत्थए ।
इ-अस्य व्याख्या प्राग्वत् । नवरं यत्र पिण्डादीनि राशीकृतादिरूपाणि तत्र गीतार्थानां कल्पते ऋतुबद्धे वस्तुमिति सूत्रहृदयम् ।। अत्र- "पुंजो उ होइ वट्टो, सो चेव य ईसि आयओ रासी ।" इत्यादिभाष्यगाथाः पिण्डाधभिलापेन प्राग्वद् मन्तव्याः यावत् “कासय इच्छा समुष्पन्न" इति। कीशी पुनरिच्छा समुत्पन्ना? इत्युच्यते[भा.३४८०] अनुभूया पिंडरसा, नवरं मुत्तूनिमेसि पिंडाणं ।
काहामो कोउहल्लं, तहेव सेसा वि भणियब्वा ॥ वृ-अनुभूतास्तावदन्येषां पिण्डानां रसाः परममीषां पिण्डानां रसान् मुक्त्वा, अतः ‘करिष्यामः' पूरयिष्यामः कौतूहलमिति विचिन्त्य प्रसुप्तेषु शेषसाधुषु तानि भोज्यानि भुङ्क्ते । 'शेषाण्यपि' क्षीरादीनि “अनुभूया खीररसा" इत्याधभिलापेन तथैव भणितव्यानि याव द्वितीयपदे तत्रापि प्रतिश्रये स्थिता अगीतार्थसाधुषु भिक्षाचर्यादिनिर्गतेषु सूरयः सागारिकमित्थं ब्रुवते ।। [भा.३४८१] तेल्ल-गुड-खंड-मछंडियाण महु-पान-सक्कराईणं ।
दिट्ठ मए सन्निचया, अन्ने देसे कुडुंबीणं ।। वृ-तैल-गुड-खण्ड-मत्स्यण्डिकानां मधु-पान-शकरादीनां च सन्निचया मऽन्यस्मिन् देशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org