________________
३००
बृहत्कल्प-छेदसूत्रम् -२-२/५६
जस्स विन एइ निद्दा, स पाउय निमीलिओ गिम्हे ॥
वृ- 'ज्ञानोद्योताः' सकलजीवादिपदार्थसार्थप्रकाशकज्ञानलक्षणभावोद्योतकलिताः साधवो भवन्ति, अतः 'द्रव्योद्योते' कतिपयपदार्थपरकाशके ज्योतिप्रभृतिके 'मासजत' मा रागमुपगच्छत । यस्य वा साधोः सप्रकाशे निद्रा नागच्छति स कल्पेन प्रावृतः स्वपिति । अथ ग्रीष्मकाले प्रावृतस्य धर्मो भवति ततो निमीलितलोचनः स्वपिति ॥
अथ "मूकावश्यकं वन्दनकहीनम्'' इति पदं व्याचष्टे
[भा. ३४५४] आवास बाहि असई, ठिय वंदन विगड जयण थुइहीनं । सुत्तेत्थ बाहि अंतो चिलिमिणि काऊण व झरंति ॥
वृ- आवश्यकं बहिः कुर्वन्ति । अथ बहि स्थानं नास्ति ततो यो यत्र स्थितः स तत्रैव स्थितो मनसैव करोति । द्वादशावर्त्तवन्दनकं न प्रयच्छन्ति । 'विकटनाम्' आलोचनां यतनया वर्षाकल्पप्रावृता निश्चेष्टा एव कुर्वन्ति । 'स्तुतिहीनं नाम' स्तुतिमङ्गलं मनसैव कुर्वन्ति । अथ “पोरिसि बाहि" त्ति पदंव्याख्यायते - सूत्रार्थपौरुष्यौ बहि कुर्वन्ति । अथ बहि स्थानं नास्ति ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलिकां कृत्वा 'झरन्ति' स्वाध्यायं कुर्वन्ति । वा विकल्पोपदर्शने, चिलिमिलिकाया अभावे मनसैव सूत्रमर्थं वाऽनुप्रेक्षन्ते इत्यर्थः ॥
[ था. ३४५५ ] मूगा विसंति निंति व, उम्मुगमाई कओ वि अछिवंता । सेहा य जोइ दूरे, जग्गंति य जा धरइ जोई ॥
वृ- 'मूकाः' तूष्णीकाः प्रविशन्ति निर्गच्छन्ति वा, नैषेधिकीमावश्यिकीं च मनसैव कुर्वन्तीत्यर्थः । 'उल्मुकम् ' अलातम् आदिशब्दादग्निशकटिकां वा कचिदप्यस्पृशन्तः तथा निर्गच्छन्ति वा प्रविशन्ति वा यथाऽऽपतन-प्रपतने न भवतः । ये च शैक्षा अगीतार्थाश्च निर्धर्माणस्ते ज्योतिषो दूरे स्थापयितव्याः । गीतार्थवृषभाश्च तावद् जाग्रति यावद् 'ज्योति' अग्निर्धयते, न विध्यायतीति भावः, मा शैक्षादयः प्रतापयेयुरिति कृत्वा ॥
[भा. ३४५६ ] अद्धाणाई अइनिद्दपिल्लिओ गीओसक्किउं सुवइ । सावयभय उस्सक्के, तेनभए होइ भयणा उ ।।
बृ- अध्वादिपरिश्रान्तोऽ तिनिद्राप्रेरितो वा गीतार्थस्तमग्निमपसर्प्य स्वपिति । सिंहव्याघ्रादिश्वापदभये यतनया तान्युल्सुकान्युत्सर्पयति । स्तेनभये तु भजना भवति यद्याक्रान्तिकस्तेनास्ततः ‘मा ज्योति प्रज्वलदवलोक्यागमनं कार्षु' इति कृत्वा तमग्निमपसर्पयति, अथाना- क्रान्तिकास्ततो ज्वलन्तमग्निं दृष्ट्वा 'जाग्रत्यमी' इति बुध्या ते नाभिद्रवन्ति अतस्तेषु तमग्निमुत्सर्पयतीति ।। [भा. ३४५७] अद्धाणविवित्ता वा, परकड असती यं तु जालेति ।
सूलाई व तवेउं, कयकज्जा छार अक्कमणं ॥
वृ- अध्वनि विविक्ताः - मुषिताः 'परकृतम्' अन्यप्रज्वालितमग्निं सेवन्ते । अथ परकृतो वह्निर्न प्राप्यते तः 'स्वयम्' आत्मनैव ज्वालयन्ति, शीतार्त्तास्तत्रेन्धनं प्रक्षिपन्तीत्युक्तं भवति । शूलम् आदिशब्दाद् विसूचिकां वा तापयितुं परकृताभावे स्वयं ज्वालयन्ति, 'कृतकार्या' निष्ठिते कार्ये क्षारेणाक्रमणं कुर्वन्ति, मा प्रदीपनकं भविष्यतीति कृत्वा ॥
[ भा. ३४५८] सावयभय आनिंति व सोउमणा वा वि बाहि नीनिंति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org