SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ २९८ बृहत्कल्प-छेदसूत्रम् -२-२/५६ वृ-अध्या-महदरण्यं ततो निर्गता आदिशब्दादशिवा-ऽवमौदर्यादिषु वर्तमाना विकालवेलायां तं ग्राम प्राप्ताः “त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयन्ति । यदि न प्राप्यते ततो गीतार्था यतनया अग्निशालायां वसन्ति । एतदेव स्पष्टयति[भा.३४४३] अद्धाणनिग्गयाई, तिण्हं असईए फरुससालाए । गीयत्था जयणाए, वसंति तो पयणसालाए । वृ-अध्वनिर्गतादयः ‘तिसृणां' पणितशाला-भाण्डशाला-कर्मशालानामन्यतरस्याः ‘परुषशालायाः' कुम्भकारशालाया अभावे ततो गीतार्था यतनया पचनशालायां' भाजनपाकशालायां वसन्ति । इह शालात्रयग्रहणादन्या अपि कुम्भकारशालाः सूचिताः ॥ तासां स्वरूपमुपदर्शयितुमाह[भा.३४४४] पणिए य भंडसाला, कम्मे पयणे य वग्धरणसाला । इंधनसाला गुरुगा, सेसासु वि होति चउलहुगा ।। वृ-पणितशाला भाण्डशाला कर्मशाला पचनशाला व्याघरणशाला इन्धनशाला चेति । अत्र निष्कारणे इन्धनशालायां तिष्ठतां चतुर्गुरुकाः । 'शेषासु' पणितशालाप्रभृतिषु चतुर्लघुकाः ।। अथैतासामेव व्याख्यानमाह[भा.३४४५] कोलालियावणो खलु, पणिसाला भंडसाल जहि भंडं। कुंभारकुडी कम्मे, पयणे वासासु आवाओ॥ वृ-कौलालिकाः-कुलालक्रय-विक्रयिणस्तेषामापणः पणितशाला मन्तव्या। किमुक्तंभवति? - यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकारहस्ताद् भाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति सा पणितशाला । भाण्डशाला यत्र घट-करकादिभाण्डजातं सङ्गोपितमास्ते।कर्मशाला कुम्भकारकुटी, यत्र कुम्भकारोघटादिभाजनानि करोतीत्यर्थः । पचनशाला नाम यत्रापाकस्थाने वर्षासु भाजनानि पच्यन्ते । इन्धनशाला तु यत्र तृण-करीष-कचवरास्तिष्ठन्ति ।। [भा.३४४६] तोसलिए वग्घरणा, अग्नीकुंडं तहिं जलति निच्चं । तत्थ सयंवरहेडं, चेडा चेडी य छुब्भंति ॥ वृ- व्याघरणशाला नाम तोसलिविषये ग्राममध्ये शाला क्रियते, तत्राग्निकुण्डं स्वयंवरहेतोर्नित्यमेव प्रज्वलति, तत्र च बहवश्चेटका: एका च स्वयं वरा चेटिका प्रक्षिप्यन्ते' प्रवेश्यन्ते इत्यर्थः । यत्सेषां मध्ये तस्यै प्रतिभाति तमसौ वृणीते, एषा व्याघरणशाला । एतासु तिष्ठतां चत्वारो लघुकाः ।। नवरम्[मा.३४४७) इंधनसाला गुरुगा, आदित्ते तत्थ नासिउंदुक्खं । दुविह विराधन झुसिरे, सेसा अगनी य सागरिए ।। वृ-इन्धनशालायां तिष्ठतां चत्वारो गुरुकाः । कुतः ? इत्याह-तत्र तृण-करीषादौ ‘आदीप्ते' प्रदीप्ते सति नंष्टुं दुःखं' दुष्करम् । शुषिरं च तत् तृणादि भवति, ततस्तत्र 'द्विविधा विराधना' संयमा-ऽऽत्मविषया। शेषासु पणितशालादिषुभाजनविक्रयिक ऋयिकादिना जनेन सागारिकम्। पचनशालायां पुनरग्निदोषो भवति ।। एतासु द्वितीयपदे तिष्ठतां विधिमाह[भा.३४४८] पढमंतु भंडसाला, तहि सागरि नत्थि उभयकालं पि । कम्माऽऽपणि निसि नत्थी, सेस कमे धनी जाव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy