SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ उद्देश : २, मूलं - ५६, [भा. ३४३७] २९७ सर्वमप्यावश्यकं न करोति ततश्चतुर्लघु । अथ वन्दनकं न ददाति स्तुतिमङ्गलं वा न करोति ततो यावन्ति वन्दनकानि याचतीः स्तुतीर्वा न प्रयच्छति तावन्ति मासलघूनि । अथ ददाति ततश्चतुर्लघु । उपविशन् सन्दशकं न प्रमार्जयति मासलघु, अथ प्रमार्जयति ततश्चतुर्लघु ॥ अथ निष्क्रमणादिपदेषु प्रायश्चित्तमाह [भा. ३४३८] आवस्सिगा निसीहिग- पमज्ज - आसज्ज अकरणे इमं तु । पनगं पनगं लहु लहु, आवडणे लगु जं चऽन्नं ॥ - निष्क्रामन्तो यद्यावश्यिकीं न कुर्वन्ति पञ्चकम् । प्रविशन्तो नैषेधिकीं न कुर्वन्ति पञ्चकम्। निर्गम-प्रवेशौ कुर्वाणा न प्रमार्जयन्ति मासलघु । आसज्जशब्दस्याकरणे मासलघु । आपतनं नामयद् भूमिमसम्प्राप्तस्य प्राप्तस्य वा जानु-कूर्पराभ्यां प्रस्खलनम्, पतनं सर्वगात्रेण भूमौ प्रपातः, द्वयोरपि चत्वारो लघुमासाः । यच्चापतितः पतितो वा आत्मविराधनादिकमापद्यते तन्निष्पन्नम् । अथवा यच्चान्यदग्नौ प्रतापनादि करोति तदत्र द्रष्टव्यम् । तदेव दर्शयति [ भा. ३४३९] सेहस्स विसीयणया, ओसक्कऽतिसक्क अन्नहिं नयनं । विज्झविऊण तुअट्टण, अहवा वि भवे पलीवणया । वृ- शैक्षस्य शीतार्त्तस्य विशीतना स्यात्, अग्नौ प्रताप्य स विगतशीतमात्मानं कुर्यादिति भावः । अत्र च यावतो वारान् हस्त पादौ वा प्रतापयन् परावर्त्तयति तावन्ति चतुर्लघूनि । तथा 'अवष्वष्कर्ण' शीघ्रविध्यापनार्थं ज्वलतामुल्मुकानामपकर्षणम्। 'अतिष्वष्कणंतु' तेषामेव प्रज्वालनार्थमुदीरणम्। ‘अन्यत्र नयनं नाम’ शयनस्थानभावादग्नेः स्थानान्तरसङ्क्रमणम् । तथा प्रदीपनकभयादग्नि क्षारेण धूल्या वा विध्याप्य त्वग्वर्त्तनम् । एतेषु प्रत्येकं चतुर्लघुकम् ।। अथवा प्रतापयतः प्रमादतः प्रदीपनक भवेत् तत्रेदं प्रायश्चित्तम् [भा. ३४४०] गाउअ दुगुमादुगुणं, बत्तीसं जोयणाई चरिमपदं । चत्तारि छ लहु गुरु छेओ मूलं तह दुगं च ॥ वृ-गव्यूतादारभ्य द्विगुणाद्विगुणवृध्या द्वात्रिंशद्योजनलक्षणं चरमपदं यावदिदं प्रायश्चित्तम्यद्येकं गव्यूतं तह्यते ततश्चत्वारो लघुमासाः, अर्द्धयोजनं दह्यते चत्वारो गुरुमासाः, योजनं दह्यते षण्मासा लघवः, योजनद्वये षण्मासा गुरवः, चतुर्षु योजनेषु च्छेदः, अष्टसु मूलम्, षोडशसु अनवस्थाप्यम्, द्वात्रिंशद्योजनेषु दग्धेषु पाराञ्चिकम् । तथा [ भा. ३४४१ ] गोणे य साणमाई, वारणे लहुगा य जं च अहिगरणं । लहुगा अवारणम्मिं, खंभ-तणाई पलीवेज्जा ।। वृ- तत्र प्रविशतो गो-श्वानादीन् यदि वारयति तदा चतुर्लघुकाः, यच्च ते वारिताः सन्तो हरितकायादिविराधनारूपमधिकरणं कुर्वन्ति तन्निष्पन्नम् । अथ न वारयति ततोऽपि चतुर्लघवः । प्रविष्टाश्च प्रज्वलदिन्धनचालनेन स्तम्भ-तृणादीनि प्रदीपयेयुः तत्रापि गव्यूतादारभ्य द्विगुणद्विगुणवृध्या द्वात्रिंशद्योजनेषु पाराञ्चिकम् । यत एते दोषा अतो न ज्योतिशालायां स्थातव्यम्। भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ किं पुनस्तत् ? इति चेद् उच्यते [ भा. ३४४२ ] अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जाए, वसंत तो अगनिसालाए । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy