________________
उद्देशक : २, मूलं-५१, [भा. ३२९२
२६७ . 'अपि च' इत्यभ्युचये, न केवलं पूर्वोक्तं सम्बन्धद्वयम्, तृतीयोऽपि सम्बन्धोऽस्तीति भावः । पूर्वसूत्रस्याधस्ताद् ‘अनन्तरसूत्रे' “नो कप्पइ निग्गंथम्स एगानियस्य राओ वा वियाले वा' इत्यादिलक्षणे उपाश्रयोऽधिकृतः, यत्रैकाकिनां श्रमणानां निशि' रात्रौ विचारभूग्याद्यर्थं न निर्गन्तुं कल्पते । 'अथ' अयं तेन सूत्रेण सह 'योगः' सम्बन्धः॥
इत्यनेकैः सम्बन्धैरायातस्यास्य व्याख्या-उपाश्रयस्य या 'अन्तर्वगडा' वगडाया अभ्यन्तरम, तच प्रतिश्रयमध्यं वा स्यात् प्राङ्गणं वा । तत्र “सालीणि व" ति शालिवीजानि वा “वीहीणि व" त्ति व्रीहिवीजानि वा, एवं मुद्भ-भाष-तिल-कुलत्य-गोधूम-(यव) यवयवैरपि तत्तद्वीजान्युच्यन्ते, यवयवाः-यवविशेषास्तद्बीजानि वा । एतानि बीजानि यत्रोपाश्रये उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा तत्र नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम् । इह यथालन्द्रं त्रिधा-जधन्यं मध्यममुत्कृष्टं च । यावता कालेनोदकार्दो हस्तः शुष्यति तद् जधन्यम्, पञ्चराबिन्दिवान्युत्कृष्टम्, तयोरपान्तराले सर्वमपि मध्यम् । अत्र जघन्य-मध्यमयोः सूत्रावतारः। अपिशब्दः सम्भावनायाम्।जधन्यमपिमध्यममपि वा यथालन्दं नो कल्पते वस्तुम्, किं पुनरुत्कृष्टम् ? इति भावः । अत्र चोक्षिप्तादीनि पदानि भाष्यगाथयैव व्याख्यास्यन्त इत्यभिप्रायेणात्र न व्याख्यातानीति सूत्रलेपार्थः । अथ नियुक्तिविस्तरः[भा.३२९३] नामं ठवणा दविए, भावे य उवस्सओ मुनेयव्यो ।
एएसिं नाणत्तं, वोच्छामि अहानुपुटवीए॥ -नामोपाश्रयः स्थापनोपाश्रयो द्रव्योपाश्रयो भावोपाश्रयश्चेति उपाश्रयश्चतुर्द्धा मन्तव्यः । एतेषामुपाश्रयाणां 'नानात्वं' विशेषमहमानुपूव्यी वक्ष्यामि ॥ तत्र नाम-स्थापने क्षुन्नत्वादनाध्त्य द्रव्य-भावोपाश्रयौ प्रतिपादयति[भा.३२९४] दवम्मि ऊ उवस्सओ, कीरइ कड चुत्थमेव सुन्नम्मि।
भावम्मि निसिढे संजएसु दवम्मि इयरेसु ॥ पृ. 'द्रव्ये तु' द्रव्यविषयः पुनरुपाश्रयो यः संयतार्थं 'क्रियते' क्रियगाणो वर्तते, कृत्वो वा परमद्यापि न संयतेभ्यो वितीर्यते, अथवा यो गृहस्थैरात्मार्थं निष्पादितः परंतत्र संयता मासकल्पं वर्षाकल्पं वा “वृत्य"त्ति उषित्वा अन्यत्र गताः, साम्प्रतं स उपाश्रयः शून्यस्तिष्ठति एष द्रव्योपाश्रयः । भावोपाश्रयो नाय यः संयतेभ्यः 'निसृष्टः' प्रदत्तः, तैः परिभुज्यमान इत्यर्थः । यः पुनः 'इतरेषां' पार्श्वस्थादीनां निसृष्टः सोऽपि द्रव्योपाश्रयो विज्ञेयः । आह च बृहद्भाष्यकृत्
जो समणट्ठाए कतो, बुत्था वा आसि जत्य समणा उ ।
अहवा दव्बउवस्सओ, पासत्यादीपरिग्गहिओ ।। अथोपाश्रयस्यैकार्थिकान्याह[भा.३२९५] उवसग पडिस सेजा, आलय वसधी निसीहिया ठाणे ।
एगढ़ वंजणाई, उवसग वगडाय निक्खेवो।। वृ. उपेत्य-आगत्य साधुभिराश्रीयत इत्युपाश्रयः । एवं प्रतिश्रीयत इति प्रतिश्रयः । शेरते साधवोऽस्यामिति शय्या । आलीयन्ते साधवोऽत्रेत्यालयः । वसन्ति साधवोऽस्यामिति वसति। निषेधः-गमनादिव्यापारपरिहारः सप्रयोजनमस्याः तमहतीति वा नैषेधिकी । तिष्ठन्ति साधवोऽत्रेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org