________________
उद्देशकः १, मूलं-४६, [भा. ३०६६]
२१९ पञ्चविधः, तद्यथा-भण्डी-गन्त्रीतदुपलक्षितःप्रथमःसार्थ बहिलकाः करभी-वेसर-बलीवर्दप्रभृतयः तदुपलक्षितो द्वितीयः । भारवहाः-पोट्टलिकावाहकास्तेषां सार्थ तृतीयः । औदरिका नाम-यत्र गताः तत्र रूपकादिकंप्रक्षिप्यसमुद्दिशन्ति, समुद्देशनानन्तरंभूयोऽप्यग्रतो गच्छन्ति, एष चतुर्थः। कार्पटिका:-भिक्षाचरास्ते भिक्षां भ्रमन्तो व्रजन्ति तेषां सार्थ पञ्चमः ॥अथैनामेव गाथां विवृणोति[भा.३०६७] गंतव्वदेसरागी, असत्य सत्थं पि कुणति जे दोसा।
इअरो सत्थमसत्थं, करेइ अच्छंतिजे दोसा ।। वृ-यो गन्तव्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थं करोति, ततः कुसार्थेन गच्छतां ये दोषास्तानापद्यन्ते, तनिष्पन्नं प्रायश्चित्तं सूरयः प्राप्नुवन्तीति भावः । ‘इतरो नाम' गन्तव्यदेशद्वेषवान् स सार्थमप्यसार्थं करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्तान् प्राप्नुवन्ति । तस्माद् राग-द्वेषविमुक्तः सार्थप्रत्युपेक्षकः सूरिभि प्रस्थापनीयः ।।
अथ सार्थपञ्चकेऽपि गमनक्रमं गुणागुणविभागं च दर्शयति[भा.३०६८] उप्परिवाडी गुरुगा, तिसुकंजियमादिसंभवो होजा।
परिवहमंदोसु भवे, बालादी सल्ल गेलन्ने ।। वृ-'उत्परिपाट्या' यथोक्तक्रममुल्लङ्ग्य यदि सार्थेन सह गच्छन्तितदा चतुर्गुरुकाः।किमुक्तं भवति? -भण्डीसार्थे विद्यमाने यदिबहिलकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः, अथ भण्डीसार्थो नप्राप्यतेततोबहिलकसार्थेनापिगन्तव्यम्, तत्र विद्यमाने भारवहसार्थेन गच्छन्तितदापिचतुर्गुरवः, एवं भारवहादिसार्थेष्वपि भावनीयम् । अत्र चायेषु 'त्रिषु' भण्डी-बहिलकभारवहसार्थेषु काश्चिकादिपानकानां सम्भवो भवेत्, 'द्वयोस्तु' भण्डी-बहिलकसार्थयोर्बालानाम् आदिशब्दाद् वृद्धानं दुर्बलानां शल्यविद्धानां ग्लानानां च परिवहनं भवेत् ॥ किं पुनः सार्थे प्रत्युपेक्षणीयम् ? इत्याह[भा.३०६९] सत्यं च सत्यवाह, सत्थविहाणंच आदियत्तं च ।
दव्वं खेतं कालं, भावोमानं च पडिलेहे ।। वृ-साथ सार्थवाहं सार्थविधानम् आतियात्रिकं द्रव्यं क्षेत्रं कालं भावम् अवमानं च प्रत्युपेक्षेत इति द्वारगाथास पार्थं ।। साम्प्रतमेनामेव विवृणोति[मा.३०७०] सत्थि त्ति पंच भेया, सत्याहा अट्ट आइयत्तीया।
सत्थस्स विहाणं पुन, गणिमाई चउब्विहं होइ ।। वृ- सार्थ इति पदेन भण्डीसार्थादयः पूर्वोक्ताः पञ्च भेदा गृहीताः । सार्थवाहाः पुनरष्टी, आतियात्रिका अप्यष्टी, उभयेऽप्युत्तरत्र वक्ष्यन्ते।सार्थविधानं पुनर्गणिमादिभेदाच्चतुर्विधं भवति। तत्र गणिमं-यदेकद्व्यादिसङ्ख्यया गणयित्वा दीयते, यथा-हरीतकी-पूगफलादि । धरिमं-यत् तुलायां धृत्वा दीयते, यथा-खण्ड-शर्करादि । भेयं यत् पलादिना सेतिकादिना वा मीयते, यथाघृतादिकं तन्दुलादिकं वा । पारिच्छेद्यं नाम-यच्चक्षुषा परीक्ष्यते, यथा-वस्त्र-रल-मौक्तिकादि। एतच्चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयम् । तथा द्रवय-क्षेत्रकाल-भावैरपि सार्थः प्रत्युपेक्षणीयः ।। तत्र द्रव्यतः प्रत्युपेक्षणां तावदाह[भा.३०७१] अनुरंगाईजाणे, गुंठाई वाहणे अणुन्नवणा।
धम्मुत्ति वा भईय व, बालादि अनिच्छे पडिकुट्ठा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org