________________
२१८
बृहत्कल्प-छेदसूत्रम् -२-१/४६ परिपुच्छिऊण गमनं, अछिन्ने पल्लीहि वइगाहिं ।। वृ-द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्यासति पथाऽपि यतनया गन्तव्यम्। तत्र च जनं परिपृच्छय यः पल्लीभिजिकाभिर्वा अच्छिनः पन्थास्तेन गमनं विधेयम् । तदभावे छिन्नेनापि ।। अथ यैः कारणैर्गन्तुं कल्पते तानि दर्शयति[भा.३०६२] असिवे ओमोदरिए, रायड्ढे भये व आगाढे।
गेलन उत्तिमट्टे, नाणे तह दंसण चरित्ते ।। वृ-आगाढशब्दः प्रयेकमभिसम्बध्यते-आगाढेऽशिवेऽवमौदर्येराजद्विष्टे बोधिक-स्तेनादिभये वा; यद्वा आगाढं नाम-शैक्ष-सागारिकादिकमन्यतरकारणम्, तथा ग्लान उत्तमार्थप्रतिपन्नो वा क्वचिद् देशान्तरे श्रुतोऽपान्तराले च तत्र च्छिन्नः पन्थाअतस्तप्रतिचरणार्थं गन्तव्यम्, उत्तमार्थं वा प्रतिपित्सुः संविग्नगीतार्थसमीपे छिनेनापि पथा गच्छति । 'ज्ञानम्' आचारादि 'दर्शन' दर्शनविशुद्धिकारकाणि शास्त्राणि तदथमध्वानं गच्छेत् । चारित्रार्थ नाम-यत्र देशे स्त्रीदोषा एषणादोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् । [भा.३०५३] एएहि कारणेहिं, आगादेहिं तु गम्ममाणेहिं ।
उवगरणपुब्बपडिलेहिएण सत्येण गंतव्वं ।। कृ'एतैः' अशिवादिभिः कारणैरागाटैरेव गम्यमानैः' प्राप्यमाणैरुपकरणमध्वप्रायोग्यं गृहीत्वा पूर्व-गमनात् प्राक् प्रत्युपेक्षितः-सम्यक् शुद्धाशुद्धतया निरूपितो यः सार्थस्तेन सह गन्तव्यम् ।। अथेदमेव स्पष्टयति[भा.३०६४] असिवे अगम्ममाणे, गुरुगा नियमा विराधना दुविहा ।
तम्हा खलु गंतव्वं, विहिणा जो वनिओ हिट्ठा ।। वृ-अशिवे समुत्पने सतियदिनगम्यते ततश्चत्वारोगुरवः। तत्रच तिष्ठतां नियमाद् द्विविधा' संयमा-ऽऽत्मनोः अथवाऽऽत्मनः परस्य चेतिविराधना !यत एवं तस्मात् ‘खलु निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिः? इत्याह-यः 'अधस्ताद्' ओघनियुक्तौ- "संवच्छरबारसएण, होही असिवं ति ते तओ निति।" इत्यादिगाथाभिर्वर्णितः। शेषाण्यप्यवमौदर्यादीनि पदानि यथैवीधनियुक्ती तथैव वक्तव्यानीति।। [भा.३०६५] उवगरण पुव्वभणियं, अप्पडिलेहिंते चउगुरू आणा।
ओमाण पंत सस्थिय, अतियत्तिय अप्पपत्थयणो॥ वृ-उपकरणं 'पूर्वभणितं' रात्रिभक्तसूत्रोक्तं नन्दीभाजन- चर्मकरकादिकं तदगृह्णानस्य चतुर्गुरुकाः । सार्थं वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः आज्ञादयश्च दोषाः । तथा सार्थं कदाचिदवमानेन स्वपक्ष-परपक्षकृतेनातीवोद्वेजितो भवेत्, यद्वा सार्थिकाः 'आतियात्रिका वा' सार्थचिन्तकाः प्रान्ता भवेयुः, अल्पपथ्यदनोवा' स्वल्पशम्बलः ससार्थ।।अत एतद्दोषपरिहारार्थ सार्थ प्रत्युपेक्षितव्यः । कथं पुनः? इति अत्रोच्यते[भा.३०६६] राग-द्दोसविमुक्को, सत्थं पडिलेहे सो उ पंचविहो ।
भंडी बहिलग भरवह, ओदरिया कप्पडिय सत्यो ।। वृ-'राग-द्वेषविमुक्तो नाम यस्य गन्तव्ये न रागो न वा द्वेषः स सार्थं प्रत्युपेक्षते । स च सार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org