SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् -२-१/४५ विधिपरिकर्मितो यथोक्त प्रमाणोपेतश्च स संविग्न सम्बन्धी ते गृहीत्वा तेषामेव संविग्नानामपर्यन्ति । अथ ते देशान्दरं गतास्ततो यदि संस्तरति ततः परिष्ठापयन्ति । अथ न संस्तरति ततः परिभुञ्जतो यः पुनः 'अशुद्धः' एतद् विपरीतः सोऽसंविग्नानां सम्बन्धी तमप्यन वस्थाऽधिकरण परिहरणार्थं गृहीत्वा पश्चात् परिष्ठापयन्ति । इदमेव व्याचष्टे - [भा. ३०३२] तं सिव्वणीहि नाउं, पमाण हीनाहियं विरंगं वा । इत्तरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा ॥ २१२ ‘तद्’ उपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं तथा 'विरङ्ग' विचित्रवर्णकरक्तम् एवंविधं दृष्ट्वा ज्ञातव्यम्, यथा- एष इतरेषाम् - असंविग्नानामुपधि, तमपि ज्ञात्वा गृह्णात्येव । कृतः ? इत्याह- मा तस्मिन्नगृह्यमाणेऽधिकरणमसंयतपरिभोगादिना 'प्रसङ्गो वा' भूयोऽप्युपकरणहरणलक्षणो भवत्विति कृत्वा ॥ [ भा. ३०३३] अन्नरस व पल्लीए, जयणा गमनं तु गहण तह चेव । गामानुगामियम्मिय, गहिए गहणे य जं भणियं ॥ वृ- अथान्यस्य सेनापतेः पल्ल्यां हृतोपकरणस्यार्द्ध नीतं भवेत ततस्तत्रापि यतनया गमनं ग्रहणं च ' तथैव' अनुशिष्टि-धर्मकथादिना विधेयम् । एवमध्वनि विविक्तानां विधिरुक्तः । अथानध्वनि तमेवातिदिशति - "गामानुगामि" इत्यादि, ग्रामानुग्रामिकेऽपि विहारे मासकल्पविधि कुर्वन्तो यदा विविक्ता भवन्ति तदा 'गृहीते' स्वहस्त चटिते "गहणे" त्ति गृह्यमाणे चोपकरणे उपधिपृथक्करणादिकं धर्मकथादिकं च यत् पूर्वं भणितं तदेवात्रापि द्रष्टव्यम् ॥ इदभेव व्याचिख्यासुराह[भा. ३०३४] तत्थेव आणवावेइ तं तु पेसेइ वा जहिं भद्दो । सत्येण कप्पियारं व देइ जो णं तर्हि नेइ ॥ वृ-यद्युपकरणमन्यस्यां पल्लयां नीतं तदा यदि मूलपल्लीपतिर्भद्रकस्तत उपकरणं 'तत्रैव' आत्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति । अथवा 'तम्' इत्यात्मीयमनुष्यं तत्र प्रेषयति यत्रासावन्यस्य सेनापतेः पल्लयामुपधिर्वर्त्तते । अथासौ न समर्थ स्वसमीपे आनाययितुं ततः सार्थेन सह तस्यां पल्लयां गन्तव्यम् । अथ सार्थो न प्राप्यते ततो मूलपल्लीपतिर्मानुषं मार्गयितव्यः । स च 'कल्पितारं' मार्गदर्शयितारं स्वमनुष्यं ददाति यः 'तत्र' पल्लूयां "ण" मिति तान् साधून् नयति ॥ [ भा. ३०३५ ] अनुसट्ठाई तत्थ वि, काउ सपल्लि इतरीसु वा घेत्तुं । सत्थेणेव जनवयं, उविंति अह भद्दए जयणा || बृ- 'तत्रापि' पल्लयामनुशिष्टि-धर्मकथादिप्रयोगं कृत्वा गृहीत्वा च स्वकीयमुपकरणजातम्, यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह स्वपल्लयामागच्छन्ति, मूलपल्लयामित्यर्थः । तत्र चागत्य सार्थेन सह जनपदमुपयान्ति । अथ तस्याः पल्लयाः सकाशादितरासां जनपदप्रत्यन्तपल्लीनां सार्थो लभ्यते तासु चोपकरणं नीतं भवेत्, ततस्तदर्थे तत्र गत्वा तच गृहीत्वा तत एव सार्थेन सार्द्ध जनपदमुपयान्ति । 'अथ' एषा भद्रकेऽन्यपल्लीपतौ यतना भगिता || अथ प्रान्तविषयां तामेवाह [ मा. ३०३६ ] Jain Education International फड्डुगपइए पंते, नंति सेनावई तहिं पंते । For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy