________________
२१०
वृहत्कल्प-छेदसूत्रम् -२-१/४५ वृ-यो धर्मकथालब्धिमान् सधर्मकथयातंसेनापतिमुपशमयति, चणैर्वा मन्त्रेण वा निमित्तेन वा विद्यया वा तमावर्तयेत् ।योवा धनुर्वेदादी कृतपरिश्रमः स भुजबलेनतंसेनापतिं निर्जित्यात्मानं गच्छंच निस्तारयति ॥ अथैषामेकमपि न विद्यते ततः[मा.३०२२] वीसज्जिया व तेणं, पंथं फिडिया व हिंडमाणा वा।
गंतूण तेनपल्लिं, धम्मकहाईहिं पनवणा॥ वृ- 'तेन' प्रान्तेन सेनापतिनोपधिमपहत्य साधवः 'विसर्जिताः' मुक्ता इत्यर्थः, मुक्ताश्च यधुपधिं न गवेषयन्ति ततश्चतुर्लघुकाः । ततः स्तेनपल्ली गत्वा गवेषयितव्य उपधि । गच्छतां चापान्तरालेयदिकोऽपिप्रश्नयेत्-कुतो भवन्तइहागताः? ततो वक्तव्यम्-पथः'मार्गात् परिभ्रष्टाः 'हिण्डमाना वा विहारक्रमेण विहरन्त एववयमिह सम्प्राप्तः। ततश्च स्तेनपल्लींगत्वाधर्मकथादिभिः सेनापतेः प्रज्ञापना कर्तव्या।। अथेदभेव भावयति[भा.३०२३] भद्दमभई अहिवं, नाउं भद्दे विसंतितं पल्लिं ।
फिडिया मुत्ति यपंथं, भणंति पुट्ठा कहिं पल्लिं ।। दृ-स्तेनपल्लीं गच्छद्भिः प्रथमत एवैतद् ज्ञातव्यम्-किमत्र सेनापतिर्भद्रकोऽभद्रको वा? | यदि भद्रकस्ततस्तां पल्ली प्रविशन्ति । अथाभद्रकस्ततः ‘मा प्रान्तापना-ऽपद्रावणादीनि कार्षीद्' इति कृत्वा न तत्र गन्तव्यम् । अथ गच्छन्ति ततश्चत्वारो गुरवः । अथ कोऽप्युपशमनायोत्सहते ततस्तं गृहीत्वा गन्तव्यम् । गच्छन्तश्च कृतः किमर्थं भवन्त इहायाताः ? कुत्र वा व्रजिष्यथ?' इति पृष्टा भणन्ति-पथः 'स्फिटिताः' परिभ्रष्टा वयमिह पल्लयामाहारान्वेषणं कुर्महे ।। [भा.३०२४] मुसियत्ति पुच्छमाणं, को पुच्छइ किं व अम्ह मुसियव्वं ।
अहिवं भणंति पुट्विं, अनिच्छे सन्नायगादीहिं।। वृ-'किं मुषिता यूयम् ?' पृच्छन्तं ब्रुवते-को नामास्मान् पृच्छति? किं वा निर्ग्रन्थानामस्माकं मुषितव्यम् ? इति । ततश्च स्तेनपल्ली गत्वा यस्तत्र सेनाया अधिपस्तं पूर्व प्रथमतः भणन्ति' धर्मकथादिना प्रज्ञापयन्ति । प्रज्ञापितश्च यद्यावृत्तस्ततो वक्तव्यम-अस्माकमुपधिं प्रयच्छेति । यदि प्रयच्छतिततः सुन्दरम् । अथ नेच्छतिप्रदातुंततोयेतस्य संज्ञातकाः-स्वजनाःआदिशब्दाद् मित्रादयश्च ते तथैव धर्मकथादिना प्रज्ञापयितव्याः। ततस्तद्दूरेण स सेनापतिरुपशमयितव्यः ।। [भा.३०२५] उवसंतो सेनावइ, उवगरणं देइ वा दवावेइ।
गीयत्थेहि य गहणं, वीसुंच से करणं ।।। वृ- उपशान्तः सन् सेनापति स्वयमेवोपकरणं ददाति, स्वमानुषैर्वा दापयति, ततो यदि ते सर्वेऽपिगीतास्तित उपकरणंमिश्रयन्ति वानवा अथागीतार्थमिश्रास्ततोगीताचस्तस्योपक्तरणस्य ग्रहणंकर्तव्यम्।यञ्च संयत-संयतीनामुपकरणं तद् विष्वविष्वक् पृथक्पृथग्विधेयम्।।
अथ सेनापतिर्ब्रयात्[भा.३०२६] सत्यो बहू विवित्तो, गिण्हह जंजत्थ पेच्छह अडता।
इहइं पडिपल्लीसुय, रुसेह बिइजओ हं भे ।। वृ-सार्थोऽस्मन्मानुषैः ‘बहुः प्रभूतो विविक्तः अतो न ज्ञायते कस्य कुत्र वस्त्रादिकमस्ति? इति, ततो गृह्णीत यूयं स्वकीयमुपकरणं यद् यत्र पर्यटन्तः पश्यथ । ततः साधुभिर्वक्तव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org