SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् -२-१/४५ दृष्ट्वा निवारणं करोति, 'मैतेषां वस्त्राण्यपहरत' इति । अथ नासौ तत्र सन्निहितस्ततः स्तेनैगृहितं सदुपकरणं भूयोऽपि प्रेषयति ॥ अमुमेव गाथाऽवयवं व्याचष्टे [भा. ३०१०] नीयं दट्ठण बहिं, छित्रदसं सिव्वणीहि वा नाउं । पेसे उवालभित्ताण तक रे भद्दओ अहिवो !! वृ- स चौरसेनाधिपति साधूनामुपधिं 'नीतम्' उपढौकितं दृष्ट्वा छिन्नदशाकत्वेन साधुसम्बन्धिनीभिः सीवनीभिः सीवितत्वेन वा 'साधूनां सत्कमेतद् वस्त्रम्' इति ज्ञात्वा तान् तस्करानुपालभते आः पापाः ! विनष्टाः स् यूयं यदेवं महात्मनां साधूनां वस्त्राण्यपहृतानीत्यादि । एवमुपालभ्य भूयोऽपि तस्योपधेः साधूनामर्पणार्थं तानेव तस्करान् साधूनामन्तिके प्रेषयति ॥ [भा. ३०११] वीसत्यमप्पिणंते, भएण छड्डित्तु केइ वञ्चति । बहिया पासवण उवस्सए व दिट्ठम्मि जा जयणा ॥ वृ- स्तेना द्विविधाः आक्रान्तिका अनाक्रान्तिकाश्च । तत्र ये आक्रान्तिकास्ते कुतोऽपि न बिभ्यति, अत एव ते चौरसेनापतिना वस्त्रप्रत्यर्पणार्थं प्रेषिताः सन्तः 'विश्वस्ताः' निर्भया दिवसत एव आनीय वस्त्रं संयतानामर्पयन्ति । अनाक्रान्तिकास्तु भयेन 'मा केनाप्यारक्षकादिना ग्रहीष्यामहे' इति परिभाव्य रात्रावानीयोपाश्रयाद्बहि प्रश्रवणभूमावुपाश्रयमध्ये वा वस्त्रं छर्दयित्वा 'व्रजन्ति' पलायन्ते । तस्मिन् वस्त्रे दृष्टे सति या वक्ष्यमाणा यतना सा करणीया ॥ तामेवाहगीयमगीया अविगीयपच्चयट्ठा करिति वीसुं तु । [ मा. ३०१२] २०८ जइ संजई वि तहियं, विगिंचिया तासि वि तहेव || वृ- यदि सर्वेऽपि गीतार्थास्ततस्तदुपकरणं मौलोपकरणेन सह मीलयित्वा यथास्वरुचि तं परिभुञ्जते । अथ ते केचिद् गीतार्था केचिचागीतार्था ततो गीतार्था अविगीतप्रत्ययार्थं हृताहृतिकोपकरणं 'विष्वक् पृथक् स्थापयन्ति । ते ह्यगीतार्था एवं चिन्तयेयुः एष स्तेनप्रत्यर्पित उपधिस्तावदुपहतः, उपहतेन च सह मिश्रित इतरोऽप्युपहत एव, अतस्तेषां प्रत्ययार्थं हृताहृतिकोपकरणं पृथक् स्थापयन्ति । अथ संयत्योऽपि विविक्ताः ततस्तासामप्युकरणं तथैव पृथक् कुर्वन्ति ॥ [भा. ३०१३ ] जो विय तेसिं उवही, अहागडऽप्पो य सपरिकम्भो य । तं पिय करिति वीसुं, मा अविगीयाइ भंडेज्जा ॥ वृ-योऽपि च 'तेषां' साधूनां यथाकृतोऽल्पपरिकर्मा सपरिकर्माचोपधिस्तमपि विष्वक् परस्परं कुर्वन्ति । कुतः ? इत्याह-मा 'अविगीतादयः' अगीतार्थादयः परस्परं 'भण्डेयुः' कलहं कुर्युः, यथा - किमिति त्वया मदीयो यथाकृतोपधि सपरिकर्मणा सह मीलितः ? इत्यादि ॥ एवं तावद् भद्रकसेनापतौ विधिरमिहितः । अथ प्रान्तविषयं विधिमाह [भा. ३०१४] पंतोवहिम्मि लुद्धो, आयरिए इच्छए विवादेउं । कयकरणे करणं वा, आगाढें किसो सयं भणइ !! वृ-प्रान्तश्चौरसेनापति 'उपधी' उपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति । ततो यस्तत्र 'कृतकरण' धर्मकथालब्धिमान् धनुर्वेदादिकृताभ्यासो वा स तत्र करणं करोति, धर्मकथादिना स्वभुजबलप्रकटनेन वा तमुपशमयतीत्यर्थः । अथवा ईदृशे आगाढे कार्ये यः 'कृशः' दुर्बलदेहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy