________________
७१
पीठिका - [भा. २६७] [भा.२६७] सव्वज्झयणा नामे, ओसन्नं मीसए अवतरंति ।
जीवगुण नाण आगम, उत्तरऽनंगे य काले य ।। वृ-'नाम्नि षड्विधनाम्निसमवतरति।षड्विधेच नाम्नि भावाः प्ररूप्यन्ते। तत्र मिश्रके' क्षायोपशमिके भावे समवतरन्ति यतः सर्वाण्यप्यध्ययनानि उत्सन्नम् अत इदमपि क्षायोपशमिकनाम्न्यवतरति ।प्रमाणद्वारमङ्गीकृत्य गुणप्रमाणे तदपिद्विधाजीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्रजीवगुणप्रमाणे समवतरति। तदपि ज्ञान-दर्शन-चारित्रभेदात् त्रिधा, तत्र ज्ञानगुणप्रमाणे समवतरति। तदपि चतुर्धा-प्रत्यक्षमनुमानमागम उपमानंच, तत्राऽऽगमे।सोऽपिद्विधा-लौकिको लोकोत्तरिकश्च, तत्र लोकोत्तरिके । सोऽपि द्विधा-अङ्गप्रविष्टोऽनङ्गप्रविष्टश्च, तत्रानङ्गप्रविष्टे । सोऽपि द्विधा-कालिक उत्कालिकश्च, तत्र कालिके । नयप्रमाणे तु न समवतरति, कालिकश्रुते नयानां समवताराभावात् । सङ्ख्याप्रमाणे तुकालिकश्रुतपरिमाणसङ्ख्यायां समवतरति ।। [भा.२६८] पज्जव पुव्वुद्दिडा, संघाया पज्जव-ऽखराणंच ।
मुत्तूण पज्जवा खलु, संघायाई उ संखिज्जा ।। वृ- कल्पस्य व्याख्यानेऽनन्ताः पर्यवाः, ते च पूर्व-नन्द्याम्- “सव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ" इत्यनेनोद्दिष्टाः-कथिताः । सङ्घाता द्विधापर्यवाणामक्षराणां च । तत्र पर्यवसङ्घाता अनन्तास्तान् ‘पर्यवान्' पर्यवसङ्घातान् मुक्त्वा शेषाः खलु संचातादयः' अक्षरसङ्घातादयः सङ्घयेयाः, श्लोकाः, सङ्ख्याता वेष्टका इत्यादि। [मा.२६९] उस्सन्नं सव्वसुयं, ससमयवत्तब्वया समोयरइ।
अहिगारो कप्पणाए, समोयारो जो जहिं एस ।। वृ. 'उत्सन्नं' सर्वकालं सर्वश्रुतं स्वसमयवक्तव्यतायां समवतरति । अर्थाधिकारे मूलगुणेषूत्तरगुणेषु चापराधमापन्नानां प्रायश्चित्तकल्पनायाम् ।। सम्प्रति यदुक्तं 'स्वसमयवक्तव्यतायां समवतरति' तदिदानी सिंहावलोकितेनापवदति[भा.२७०] परपक्खं दूसित्ता, जम्हा उ सपक्खसाहणं कुणइ।
नो खलु अदूसियम्मी, परे सपखंजसा सिद्धी ।। वृ-परसमयवक्तव्यतायामप्यवतरति, यस्मात् परपक्षं दूषयित्वा स्वपक्षसाधनं करोति, न खल्वदूषिते परपक्षे स्वपक्षस्याजसा व्यक्ता प्रधाना वा सिद्धिर्भवति, ततः परसमयवक्तव्यतायामवतारः । तदेवमिदं कल्पाध्ययनमुपक्रमे आनुपूादौ यत्र यत्र समवरतरति तत्र तत्रमवतारितारः । तदेवमिदं कल्पाध्ययनमुपक्रमे आनुपूव्यादौ यत्र तत्र समवरतरति तत्र तत्र समवतारितम् ।। गत उपक्रमः । सम्प्रति निक्षेपमाह[भा.२७१] निक्लेवो होइ तिहा, ओहे नामे य सुत्तनिप्फन्ने ।
अज्झयणं अज्झीणं, आओ झवणा य तत्थोहे ।। तृ-निक्षेपस्त्रिविधः-ओधनिप्पन्नोनामनिष्पन्नः सूत्रालापकनिष्पन्नश्च। तत्रौघनिप्पश्चतुर्विधः, तद्यथा-अध्ययनमक्षीणमायः क्षपणा च ॥ [भा.२७२] इक्विक्वंतं चउहा, नामाईयं विभासिउं ताहे ।
भावे तत्थ उ चउसु वि, कप्पज्झयणं समोयरइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org