________________
१६९
उद्देशकः १, मूलं-४२, [भा. २८३५] खाइमं वा साइमं वा पडिगाहितए।
वृ-अस्य सम्बन्धं घटयन्नाह[भा.२८३६] वयअहिगारे पगए, राईभत्तवयपालणा इणमो।
सुत्तं उदाहु थेरा, मा पीला होज्ज सव्वेसि ।। वृ-पूर्वसूत्रेद्वितीयावग्राहानुज्ञामन्तरेण वस्त्रंनपरिभोक्तव्यमितितृतीयव्रतस्याधिकारः प्रकृतः। तस्मिश्च प्रकृते रात्रिभक्तव्रतपालनार्थमिदं सूत्रं 'स्थविराः' श्रीभद्रबाहुस्वामिन उदाहतवन्ता। कुतः ? इत्याह-मा तस्मिन् षष्ठव्रते भग्ने 'सर्वेषामपि' महाव्रतानां पीडा' विराधना भवेदिति कृत्वा ।। प्रकारान्तरेण सम्बन्धमाह[भा.२८३७]अहवा पिंडो भणिओ, न यावि तस्स भणिओ गहणकालो।
तस्स गहणं खपाए, वारेइ अनंतरे सुत्ते ।। वृ-अथवा "निग्गंथंचणं गाहावइकुलं पिंडवायपडियाए" इत्यादिषु सूत्रेषु पिण्डो भणितः। न च तस्य पिण्डस्य अपिशब्दाद् वस्त्रादेर्वा ग्रहणकालो भणितः ‘कदा गृह्यते? कदा च न?' इति, अतः पूर्वसूत्रेभ्यो यदनन्तरमिदमेव सूत्रतत्र 'तस्य पिण्डस्य ग्रहणं क्षपायां' रात्रौ निवारयतीति॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा 'अशनं वा' ओदनादि ‘पानं वा' आयामादि 'खादिमं वा' फलादि 'स्वादिमं वा' शुण्ठयादि प्रतिग्रहीतुमिति सूत्राक्षरार्थः ।। अथ भाष्यविस्तरः[भा.२८३८] रातो व वियाले वा, संज्झा राई उ केसिइ विकालो ।
चउरोय अनुग्घाया, चोदगपडिघाय आणादी ।। “रात्री वा विकाले वा" इति यदुक्तं सूत्रे तत्र सन्ध्या रात्रिरुच्यते, राजते-शोभते इति निरुक्तिवशात् । शेषा सर्वाऽपि रजनी विगतः सन्ध्याकालोऽत्रेति कृत्वा विकाल उच्यते । केषाञ्चिदाचार्याणां दिवसलक्षणकालविगमात् सन्ध्या विकालः, शेषा तु रात्रि, रज्जंति (रान्ति] स्तेन-पारदारिकादयोऽत्रेति कृत्वा । एतयो रात्रि-विकालयोः सूत्रोक्तं चतुर्विधमाहारं गृह्णतो भुञानस्य चचत्वारोऽनुद्धाता मासाःप्रायश्चित्तम्।नोदकःप्रेरयति-किमिति रात्रिभोजनंपरिहियते? उच्यते-बहुदोषदर्शनात्।पुनरपि परः प्राह-युष्याकंद्वाचत्वारिंशद्दोषपरिशुद्धः पिण्डः परिभुज्यते इति समयस्थिति, तेषुच द्वाचत्वारिंशद्दोषेषुरात्रिभोजनंन क्वापि प्रतिषिद्धम्, अप्रतिषिद्धत्वाचावश्यमेव निर्दोषमिति मे मति । अस्य नोदकवचनस्य प्रतिघातंप्रतिषेधमाचार्य करोति-नोदक ! भवत एवं ब्रुवाणस्याज्ञाभङ्गादयो दोषाः, तथाहि-यत् त्वया प्रतिपादितं रात्रिभोजनप्रतिषेधः क्वाप्यस्माभिर्न दृष्टः' इत्यादि तदेतदज्ञानप्रलपितमिव लक्ष्यते ।। यतः[भा.२८३९] जइ वि य न पडिसिद्धं, बायालीसाए राइभत्तं तु ।
छट्टे महव्वयम्मी, पडिसेहो तस्स ननु वुत्तो।। वृ-यद्यपिचद्वाचत्वारिंशतिदोषेषुरात्रिभक्तंनप्रतिषिद्धं तथापिषष्ठेमहाव्रतेषड्जीवनिकायां ननु तस्या प्रतिषेध उक्त एव । तथा च सूत्रम्-अहावरे छठे भंते ! वए राइभोयणाओ वेरमणं । इत्यादि । अपिच[भा.२८४०] जता दिया न कप्पइ, तमंति काऊण कोट्टयाईसु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org