________________
१६८
बृहत्कल्प-छेदसूत्रम् -२-१/४१
[भा. २८३१] नवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स । लाभो विनासमन्त्रे, अंते मज्झे य जाणाहि ॥
वृ- इह यतो वस्त्रमायतं ततः प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणका अपिसब्दात् कोणकमध्यवर्तिनौ च द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति । ये पुनः 'अन्ये' अपरे वस्त्रमध्यवर्तिनस्त्रयो भागाः, तद्यथा- द्वावन्त्यविभागौ एकः सर्वमध्यवर्ती विभागः, तेषु 'विनाशं' ग्लानत्वादिकं जानीहि ॥ अथ यैश्चिद्वैस्तेषु विभागेषु लाभो विनाशो वाऽनुमीयते तान्येवाह[भा.२८३२] अंजन-खंजन-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्ढे । तुन्निय कुट्टिय पचवलीढे, होइ विवाग सुहो असुहो वा ॥
वृ- अञ्जनं सौवीराञ्जनादि खञ्जनं दीपमलः कर्दमः पङ्कस्तैर्लिप्तेः खरण्टिते, तथा मूषकैः उपलक्षणत्वात् कंसारिकादिभिश्च भक्षिते, अग्निना वा विशेषेण दग्धे, तथा तुन्नकारेण 'तुन्निते' स्वकलाकौशलतः पूरितच्छिद्रे, 'कुट्टिते च' रजककुट्टनेन पतितच्छिद्रे, पर्यवैः पुराणादिभि पर्यायैर्ली-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फटिते वा इत्यर्थः । एवंविधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकः परिणामो भवति । तत्र ये शुभा विभागास्तेषु शुभो विपाको ये त्वशुभास्तेष्वशुभ इति ॥ अथ नवानामपि विभागानां स्वामिनः प्रतिपादयति
[भा. २८३३]
चउरो य दिव्विया भागा, दुवे भागा य मानुसा।
आसुरा यदुवे भागा, मज्झे वत्थस्स रक्खसो ।।
घृ- चत्वारः कोणकाः 'दैव्याः' देवसम्बन्धिनो भागाः 'द्वौ' अञ्चलमध्यभागी 'मानुषी' मनुष्यस्वामिको । 'द्वीच भागी' कर्णपट्टिकामध्यलक्षणी 'आसुरी' असुरसम्बन्धिनी । सर्वमध्यगतः पुनरेको भागः 'राक्षसः' राक्षसस्वमिक इति ॥ अथैतेषु विभागेषु शुभा-ऽशुभफलमाह[भा. २८३४] दिव्वेसु उत्तमो लाभो, मानुसेसु य मज्झिमो ।
आसुरेसु य गेलनं, मज्झे मरणमाइसे ॥
वृ- दैव्येषु भागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं भवति तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्रपात्रादीनां लाभो भवेत् । मानुषभागयोरञ्जनाद्युपदूषिते च वस्त्रे मध्यमो लाभो भवति । आसुरभागयोरञ्जनादिदूषितयोर्लानत्वं भवति । राक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणादिशेदिति ॥ अथाखण्डस्यैव वस्त्रस्य लक्षणमाह
[भा. २८३५ ] जं किंचि होइवत्थं, पमाणवं सम रुइं थिरं निद्धं । परदोसे निरुवहतं, तारिसगं खू भवे धन्नं ॥
वृ- यत्किञ्चिद् वस्त्रं 'प्रमाणवत्' सूत्रोक्तप्रमाणोपेतं 'समं नाम' नान्यत्रस्थूलमन्यत्र श्लक्ष्णं 'रुचि नाम' रुचिकारकं 'स्थिरं' दृढं 'स्निग्धं' सतेजः, एभि पञ्चभि पदैर्द्वात्रिंशद् भङ्गा भवन्ति, एषप्रथमो भङ्गो गृहीतः । तथा परदोषाः - आसुर राक्षसभागेष्वञ्जन खञ्जनप्रभृतयस्तैः 'निरुपहतं' वर्जितम्, यद्वा परः-दायकस्तस्य ये दोषाः क्रीत-कृतादयस्तैर्विवर्जितं ताध्शं वस्त्रम्, खुरवधारणे, ताशमेव 'धन्यं' ज्ञानादिधनप्रपकलक्षणोपेतमित्यर्थः ॥
मू. (४२) नो कप्पइ निग्गंधाण वा निग्गंथीण वा राओ वा वियाले वा असनं वा पानं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org