________________
उद्देशक : १, मूलं ३७, [भा. २७८४]
निर्ग्रहार्थं वादलब्धिसम्पन्नेन गन्तव्यम् । “राय"त्ति राजा वा कश्चित् परराष्ट्रीयः साधूनामुपरि प्रद्विष्टस्तस्योपशमनार्थं सलब्धिकेन गन्तव्यम् । “कुलसंगय'त्तिउपलक्षणत्वात् कुल-गणसङ्घसङ्गतं किमपि कार्यमुत्पन्नं कुलादिविषयमित्यर्थः । अथवा “रायकुलसंगत" त्ति एकमेव पम्, राजकुलेन सह सङ्गतं सम्बद्धं केनापि साधुना अधिकरणं कृतं तदुपशमनाय गच्छति । एवमादिषु कार्येषु वैराज्येऽपि गन्तुं कल्पते ॥ अथ दर्शन-ज्ञानपदद्वयं भाष्यकृद् व्याख्यानयति
[भा. २७८५ ] सुत्त - ऽत्थ-तदुभयविसारयम्मि पडिवन्न उत्तिमम्मि । एतारिसम्म कप्पर, वेरज-विरुद्धसंकमणं ॥
१५७
वृ-दर्शनप्रभावकशास्त्राणामाचारादिश्रुतज्ञानस्य वा सम्बन्धि यदन्यत्राविद्यमानं सूत्रार्थतदुभयं तत्रविशारदः कश्चिदाचार्य स चोत्तमार्थमनशनं प्रतिपन्नः । यस्मिश्च क्षेत्रेऽसौ स्थितस्तत्र अपान्तराले वा वैराज्यं वर्त्तते, 'तौ च सूत्रार्थी मा व्यवच्छेदं प्रापताम्' इति कृत्वा एताद्दशे कारणे वैराज्यविरुद्धे सङ्क्रमणं कर्त्तुं कल्पते ॥ अथ येन विधिना तत्र गन्तव्यं तमभिधित्सुराह
[भा. २७८६ ] आपुच्छिय आरक्खिय-सट्ठि-सेनावई-अमच - राईणं । अइगमने निग्गमने, एस विही होइ नायव्वो ।
वृ- आपृच्छयारक्षिकं ततः श्रेष्ठिनं ततः सेनापतिं ततोऽमात्यं ततो राजानमप्यापृच्छ्य निर्गन्तव्यं प्रवेष्टव्यं वा । एष विधि 'अतिगमने' परराज्यप्रवेशे 'निर्गमने च' पूर्वस्माद् राज्याद् निर्गमने च ज्ञातव्यो भवति । अमुमेवार्थं प्रकटयन्नाह -
[मा. २७८७] आरक्खितो विसज्जइ, अहव भणिज्जा स पुच्छह तु सेट्ठि । जाव निवो ता नेयं, मुद्दा पुरिसो व दूतेणं ॥
वृ- वैराज्य विरुद्धं गच्छता प्रथमत एवारक्षिकः प्रष्टव्यः । यद्यसौ विसर्जयति ततो लष्टम् । अथासौ भणेत्-नाहं जानामि, 'श्रेष्ठिनं' श्रीदेवताऽध्यासितशिरोवेष्टनविभूषितोत्तमाङ्गं पृच्छत । ततः श्रेष्ठी प्रष्टव्यः, एवं यावद् 'नृपः' राजा तावद् 'नेयं' नेतव्यं वक्तव्यमित्यर्थः । तच्चैवम्-श्रेष्ठी पृष्टो यदि विसर्जयति ततः सुन्दरम् अथासौ ब्रूयात् अहं न जानामि, सेनापतिं प्रश्नयत । ततः सेनापति प्रश्नितो यद्यनुजानीते ततः शोभनम्, अथासौ ब्रूयात् - अमात्यं पृच्छत । ततोऽसावमात्यः पृष्टो यदि विसर्जयति ततो लष्टम्, अथ ब्रूयात्-राजानं पृच्छत । ततो राजाऽपि प्रष्टव्यः । एते च राजादयो यदिविसर्जयन्ति तदा मुद्रापट्टकं दूतपुरुषं वा मार्गयितव्याः, येन 'राजादिना विसर्जिता एते' इति स्थानपालकाः प्रत्ययतः प्रथमवतारयन्ति; यो वा दूतस्तत्र राज्ये व्रजति तेन सार्द्ध गच्छन्ति ॥ एवं तावद् यतो राज्यान्निर्गच्छन्ति तत्र विधिरुक्तः । अथ यत्र राज्ये गन्तुकामास्तत्र प्रविशतां विधिमाह
[ भा. २७८८] जत्थ विय गंतुकामा, तत्थवि कारिति तेसि नायं तु । आरक्खियाइ ते वि य, तेनेव कमेण पुच्छंति ।।
वृ-यत्रापि राज्ये गन्तुकामास्तत्रापि ये साधवो वर्त्तन्ते तेषां लेखप्रेषणेन सन्देशकप्रेषणेन वा प्रागेव ज्ञातं कुर्वन्ति, यथा-वयमितो राज्यात् तत्रागन्तुकामाः, अतो भवद्भिस्तत्रारक्षिकादयः प्रष्टव्याः । ततस्तेऽपि 'तेनैव' पूर्वोक्तेन क्रमेण आरक्षिकादीन् पृच्छन्ति । यदा तैरनुज्ञातं भवति तदा तान् साधून् ज्ञापयन्ति-आरक्षिकादिभिरत्रानुज्ञातमस्ति भवद्भिरत्रागन्तव्यम् ॥ निर्गमने
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International