________________
बृहत्कल्प-छेदसूत्रम् -१गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ।। वृ-स्वसमय परसमयं वेत्तीति स्वसमय-परसमयवित्, स च परेणाक्षिप्तः सुखेनस्वपक्षं परपक्षं च निर्वहति । 'गम्भीरः' अतुच्छस्वभावः । दीप्तिमान् परवादिनामनुद्धर्षणीयः । 'शिवः अकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः । ‘सोमः' शान्तष्टिः । गुणा:-मूलगुणा उत्तरगुणाश्च तेषांशतानितैः कलितोगुणशतकलितः। युक्तः' समीचीनः प्रवचनस्य-द्वादशाङ्गस्य सारम्-अर्थं कथयितुम् । कस्माद्गुणशतकलित इष्यते? इति चेद् अत आह[भा.२४५] गुणसुट्टियस्स वयणं, घयपरिसित्तु व्व पावओ भाइ।
गुणहीणस्स न सोहइ, नेहविहूणो जह पईयो ।। वृ- यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं धृतपरिसिक्तपावक इव “भाति' दीप्यते । गुणहीनस्य तुन शोभते वचनम्, यथा स्नेहविहीनः प्रदीपः । उक्तञ्च
आयारे वट्टतो, आयारपलवणाअसंकेतो।
आयारपरिभट्ठो, सुद्धचरणदेसणे भइओ ।। गत केन वेति द्वारम् । अधुना कस्येति द्वारमाह[भा.२४६] जइ पवयणस्स सारो, अत्थो सो तेन कस्स कायव्यो।
एवंगुणन्निएणं, सब्बसुयस्साऽऽउ देसस्सा ॥ -यदिप्रवचनस्यसारोअर्थस्तर्हिसतेन एवंगुणान्वितेन कस्य कर्तव्यः? किं सर्वश्रुतस्य? उत 'देशस्य' श्रुतस्कन्धादेः? इति । अत्र सूरिराह[भा.२४७] को कल्लाणं निच्छइ, सव्वस्स वि एरिसेण वत्तव्यो।
कप्प-व्यवहाराण उ, पगयं सिस्साण थिजत्थं ।। वृ-को नाम जगति कल्याणं नेच्छति? ततः सर्वस्यापि श्रुतस्यानुयोग ईशेन वक्तव्यः। केवलं कल्पो व्यवहारश्चापवादबहुलस्तेनैतयोरनुयोगे विशेषत एताशेन 'प्रकृतम्' अधिकृतमधिकारः, एवंगुणयुक्तेनैव कल्प-व्यवहारयोरनुयोगः कर्तव्य इत्यर्थः । कस्मादेवमुच्यते ? इति चेत्, उच्यते-शिष्याणां स्थिरीकरणार्थम् ॥ तदेव स्थिरीकरणं भावयति[भा.२४८] एसुस्सग्गठियप्पा, जयणाणुनातो दरिसयंतो वि ।
तासुन वट्टइ नूनं, निच्छयओ ता अकरणिज्जा ॥ वृ- यदा नाम यथोक्तगुणशतकलितः कल्प-व्यवहारयोरनुयोगं करोति तदा शिष्या एवमवबुध्यन्ते-एष स्वयमुत्सर्गस्थितात्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपयाप्रतिसेवनाअनुज्ञाताः प्रदर्शयति, ततः प्रतिसेवनायतनयाऽनुज्ञाता अपिप्रदर्शयन् स्वयं तासुन वर्तते, किन्तु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम्-निश्चयेनैता यतनानुज्ञाता अपि प्रतिसेवनाः 'अकरणीयाः' न समाचरितव्याः। किञ्च[भा.२४९] जो उत्तमेहि पहओ, मग्गो सो दुग्गमो न सेसाणं ।
आयरियम्मि जयंते, तदणुचरा केण सीइज्जा ।। वृ-यः 'उत्तमैः' गुरुभिः प्रहतः' क्षुण्णः ‘मार्ग' पन्थाः सशेषाणांदुर्गमोन भवति, किन्तु सुगमः । तत्र आचार्ये 'यतमाने' यथोक्तसूत्रनीत्या प्रयत्नवति तदनुचराः' तदाश्रिताः शिष्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org