________________
पीठिका - [भा. २४०]
गतं प्रवृत्तिद्वारम् । इदानीं केन वेति द्वारमाह[भा.२४१] देस-कुल-जाइ-रूवी, संघइणी धिइजुओ अनासंसी।
अविकंथणो अमाई, थिरपरिवाडी गहियवको ।। वृ-युतशब्दः प्रत्येकमभिसम्बध्यते-देशयुतः कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो वाऽर्द्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपेशिष्याअधीयतइति तदुपादानम्। कुलं पैतृकम्, तथाचलोकेव्यवहारः-इक्ष्वाकुकुलजोऽयम् नागकुलजोऽयमित्यादि, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति । जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति । रूपयुतो लोकानां गुणविषयबहुमानभाग जायते, “यत्राकृतिस्तत्र गुणा वसन्ति" इति प्रवादात् । संहननयुतो व्याख्यायां न श्राम्यति । धृतियुतो नातिगहनेष्वर्थेषु भ्रममुपयाति । 'नाशंशी' श्रोतृभ्यो वस्त्राद्यनाकाक्षी । 'अविकस्थ नः नातिबहुभाषी । अमायी' नशाठ्येन शिष्यान् वाहयति। स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्नाअनुयोगपरिपाटयो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थोवानमनागपिगलति। 'गृहीतवाक्यः' उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिमाति॥ [भा.२४२] जियपरिसो जियनिद्दो, मज्झत्यो देस-काल-भावन्नू ।
आसनलद्धपइभो, नाणाविहदेसभासन्नू ॥ वृ. 'जितपरिषत्' न महत्यामपि पर्षदि क्षोभमुपयाति । 'जितनिद्रः' रात्री सूत्रगर्थं वा परिभावयन्न निद्रया बाध्यते । 'मध्यस्थः सर्वेषु शिष्येषु समचित्तः । देशं कालं भावंजानातीति देश-काल-भावज्ञः, सहिदेशंकालंभावंच लोकानां ज्ञात्वासुखेन विहरति, शिष्याणांचाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्त्तयति । 'आसन्नलब्धप्रतिभः' परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी । नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नाना देशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति ।। [भा.२४३] पंचविहे आयारे, जुत्तो सुत्तऽत्थतदुभयविहन्नू।
आहरण-हेउ-उवनय-नयनिउणो गाहणाकुसलो।। वृ-पञ्चविध आचारः-ज्ञानाचारदिरूपस्तस्मिन् 'युक्तः' उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात्।सूत्रा-ऽर्थग्रहणेनचतुर्भङ्गी सूचिता-एकस्य सूत्रनार्थ, द्वितीयस्यार्थोन सूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्य नसूत्रंनाष्यर्थ; तत्रतृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, सूत्राऽर्थतदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः । आहरणं-दृष्टान्तः, हेतुश्चतुर्विधो यापकादि यथा दशवैकालिकनियुक्तौ, यदि वा द्विविधो हेतुः कारको ज्ञापकश्च, तत्रकारको घटस्य कर्ताकुम्भकारः, ज्ञापको यथा-तमसिघटादीनामभिव्यञ्जकः प्रदीपः, उपनयउपसंहारः, नयाः-नैगमादयः, एतेषु निपुण आहरण-हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैविक्तयेन नयानभिधत्ते। ‘ग्राहणाकुशलः' प्रतिपादनशक्त्युपेतः॥
[भा.२४४] ससमय-परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो। [18]5]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org