SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं- ३४, [भा. २७०० ] १३७ च्छेद इति । यथा चाधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तं तथा साहाय्यकरणेऽपि द्रष्टव्यम्, समानदोषत्वात् ॥ अथोपेक्षाव्याख्यानमाह [भा. २७०१ ] परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयट्ठे । अवि य उवेहा वुत्ता, गुणो वि दोसो हवइ एवं ॥ वृ-हाधिकरणं कुर्वतो ध्ट्वा माध्यस्थ्यभावेन तिष्ठन् अन्येषामप्युपदेशं प्रयच्छति-परप्रत्यया या 'क्रिया' कर्मबन्धः सा अस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्क्रमाभावात् । तथा यद्येतावधिकरणकरणादुपशान्येते ततः परार्थ कृतो भवति । तं च परार्थं मुक्त्वा यदि मोक्षार्थिनस्तदा ‘आत्मार्थ एव' स्वाध्याय-ध्यानादिके 'यतध्वं' प्रयत्नं कुरुत । अपि चेत्यभ्युच्चये । ओधनिर्युक्तिशास्त्रेऽप्युपेक्षा संयमाङ्गतया प्रोक्ता, “उवेहित्ता संजमो वृत्तो" (पेहेत्ता संजमो वृत्तो, उवेहित्ता वि संजमो ) । इति वचनात् । यद्वा "मैत्री - प्रमोद - कारुण्य माध्यस्थ्यानि सत्त्व - गुणाधिक-क्लिश्यमानाऽविनेयेषु" इति वचनाद् अविनेयेषु माध्यस्थ्यापरपर्याया उपेक्षैव प्रोक्ता, ततः सैव साधूनां कर्तुमुचितेति भावः । अत्र सूरिराह "गुणो वि दोसो हवइ एवं" तियदिदमविनेयेषु माध्यस्थ्यमुपदिष्टं तदसंयतापेक्षया न पुनः संयतानङ्गीकृत्य; यस्मादसंयतेष्वियमुपेक्षा क्रियमाणा गुणः संयतेषु तु क्रियमाणा महान् दोषो भवति । उक्तञ्चीघनिर्युक्तावपि संजयगिहिचोयणऽचोयणे य वावार ओवेहा । अथ " परपत्तिया न किरियत्ति पदं भावयति [भा. २७०२] जइ परोपडिसेविज्जा, पावियं पडिसेवणं । मज्झ मौनं चरंतस्स के अठ्ठे परिहायई ॥ वृ-यदि 'परः' आत्मव्यतिरिक्तः 'पापिकाम्' अकुशलकर्मरूपामधिकरणादिकां प्रतिसेवनां प्रतिसेवेत ततो मम मौनमाचरतः को नाम ज्ञानादीनां मध्यादर्थः परिहीयत ? न कोऽपीत्यर्थः ॥ अथ "मोत्तु पर व जयसु आयढे" इति पदं व्याचष्टे [भा. २७०३] आय उवत्ता, माय परट्ठम्मि वावडा होह । हंदि परद्वाउत्ता, आयट्ठविणासगा होंति । वृ- आत्मार्थी नाम-ज्ञान-दर्शन-चारित्ररूपं पारमार्थिकं स्वकार्यं तत्रोपयुक्ता भवत, मा च 'परार्थे' परकार्येऽधिकरमोपशमनादौ व्यापृता भवत । हन्दीति हेतूपदर्शने । यस्मात् परार्थायुक्ता ‘आत्मार्थविनाशकाः’ स्वाध्याय-द्यानाद्यात्मकार्यपरिमन्थकारिणो भवन्ति ।। गतमुपेक्षाद्वारम् । अथोपहसनोत्तेजनाद्वारे युगपद् व्याचष्टे [मा. २७०४] एसो वि ताव दम्मउ, हसइ व तस्सोमयाए ओहसना । उत्तरदानं मा ओसराहि अह होइ उत्तुअणा ॥ वृ द्वयोरधिकरणं कुर्वतोरेकस्मिन् सीदति आचार्योऽन्यो वा ब्रवीति एषोऽपि तावददान्तपूर्वोदम्यतामिदानीमनेन; यदि वा तस्य 'अवमतायां' पश्चात्करणे इत्यर्थः स्वयमट्टट्टहासैरुपहसति, एतदुपहसनमुच्यते । तथा तयोर्मध्याद् यः सीदति तस्य 'उत्तरदानं ' अमुकममुकं च ब्रूहि इत्येवं शिक्षापणम्ः यद्वा-माऽमुष्मादपसरस्त्वम्, ध्ढीभूय तथा लग यथा नैतेन पराजीयसे, अथैषोत्तेजनाऽभिधीयते ॥ अथ सहायकत्वं व्याख्यानयति [भा. २७०५ ] वायाए हत्थे हि व, पाएहि व दंत-लउडमादीहिं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy