________________
उद्देश : १, मूलं- ३२, [भा. २६६३]
१२७
चिलवंतीसु सकलुणं, हयहियय ! किमाकुलीभवसि ॥
वृ- बीजकार्य कुट्टयन्तीति कुट्टन्यः कण्डनकारिण्य इत्यर्थः, तासु गायन्तीषु साधुभि स्वचेतसि चिन्तनीयम् - यदि नामैतः कुट्टन्यो मुशलैरनवरतमुत्क्षिप्यमाण-निक्षिप्यमाणैः 'सादिताः' खेदिताः सत्यस्तद्दुखापनोदार्थमित्थं विस्वरं रुदन्त्य इव गायन्ति तर्हि परमार्थतो विलपितमेवैताः कुर्वन्ति, "सर्वं गीतं विलपितम्" इति वचनात् ततः सकरुणं विलपन्तीष्वेतासु हे हतहृदय ! किमेवम् 'आकुलीभवसि ' विश्रोतसिकामुपगच्छसि ? नैवं भवतो युज्यत इति भावः ॥
गता शालाविषया चता । अथ मध्यविषयां यतनामाह
[ भा. २६६४ ] मज्झे जग्गंति, सया, निंति ससद्दा य आउला रत्तिं । फिडिए य जयण सारण, एहेहि इओ इमं दारं ॥
वृ-यत्र चतुःशालादिगृहमध्ये वसन्ति तत्र वृषभा रात्री 'सदैव' चतुर्ष्वपि यामेष्वित्यर्थः वारकेण जाग्रति । कायिक्यादिव्युत्सर्जनार्थं च रात्री 'सशब्दाः' काशितादिशब्दं कुर्वन्तः 'आकुलाश्च' त्वरमाणाः 'निर्यन्ति' निर्गच्छन्ति यथा पूर्वोक्ताः शङ्कादयो दोषा न स्यु । यश्च रात्रौ 'स्फिटितः ' मार्गात् परिभ्रष्टो भवति तस्य यतनया यथा गृहस्था न विबुध्यन्ते तथा सारणा कर्त्तव्या, यथा-ह हि इत इदं द्वारं वर्त्तते ॥
[मा. २६६५] अविजाणतो पविट्ठो, भणइ पविट्ठो अजाणमाणोमि ।
एहामि वए ठविउं, न पवत्तइ अत्थि मे इच्छा ।।
वृ-यत्सत्रान्यमपवरमविजानन् प्रविष्टः स पृष्टोऽ पृष्टो वा शङ्कापनोदार्थं भणति-'अजानानः' मार्गमनवबुध्यमानोऽहमत्र प्रविष्टः । यदि अविरतिका तमवभाषते मया सममुपभुङ्क्ष्व भोगान् अन्यथोड्डाहं करिष्यामीति, ततो वक्तव्यम्-येषा गुरूणां समीपे मया व्रतानि गृहीतानि सन्ति तेषामेव सन्निधी स्थायित्वा एष्यामि, ममापि त्वद्विषया इच्छाऽस्ति परं किं करोमि? 'न प्रवर्त्तते' न बुध्यते (युज्यते) गुरूणां समीपे व्रतान्यस्थापयित्वा एवं कर्तुम् इत्यभिधाय ततो निर्गन्तव्यम् ।। यत्र मज्जन- हिरण्ये भवतस्तत्रेयं यतना
[भा. २६६६ ] कडओ व चिलिमिली वा, मजंतिसु थेरगा य तत्तो उ । आइनहिनेय, रचिय सिक्खगा दूरे ।।
कृ शय्यातरस्त्रीषु मज्जन्तीषु उपलक्षणत्वात् शय्यातरे वा मज्जति अपान्तराले कटको वा चिलिमिलिका वा दातव्या, ततश्च तेन पार्श्वेन स्थविरा: स्थापयितव्याः । येन च पार्श्वेन हिरण्यादीन्याकीर्णानि भवन्ति ततः स्थविरा एव कर्त्तव्याः । शिक्षकास्तु ततो दूरे स्थापनीयाः ।। गता मध्यविषया यतना । अथ छिण्डिकाविषयामाह
[मा. २६६७ ] दारमसुनं काउं, निंति अइंती ठिया उ छिंडीए ।
काइयजणास चिय, वगडासुत्तम्मि जा भणिया ||
वृ- छिण्डिकायां स्थिताः सन्तो द्वारमशून्यं कृत्वा निर्गच्छन्ति वा प्रविशन्तिवा येन स्तेनादयो दोषा न भवन्ति । 'कायिकीयतना तु' मात्रकव्युत्सर्जनादिका सैव द्रष्टव्या या पूर्वं वगडासूत्रे भणिता ॥
मू. (३३) कप्पइ निग्गंथीणं गाहावइकुलस्स मज्झंमज्झेणं गंतुं वत्थए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org