________________
उद्देशक : १, मूलं २९
[भा. २५६९ ]
[ भा. २५६९]
१०७
एवं एक्कक्क तिगं, वोचत्थकमेण होइ नायव्वं । मोत्तूण चरिम सन्त्री, एमेव नपुंसएहिं पि ॥
वृ एवं मध्यस्थादिषु एकैकस्मिन् पदे त्रिकं 'विपर्यस्तक्रमेण' प्रथमं स्थविरेषु ततो मध्यमेषु ततस्तरुणेषु इत्येवंलक्षणेन वैपरीत्यविधिना भवति ज्ञातव्यम्, परं मुक्तवा चरमं संज्ञिनम् । किमुक्तं भवति ? - चरमो भेदः काथिकः, तत्र संज्ञिनि प्रथमतस्त्रिकं न चारयितव्यं किन्तु द्विकम्, तद्यथा-यदा तृतीयावर्गो न प्राप्यते तदा चतुर्थवर्गे प्रथमं संज्ञिषु काथिकस्थविरेषु, तदलाभे काधिकमध्यमेषु, तदप्राप्तावसंज्ञिषु काथिकस्थविरेषु, तदभावे काथिकमध्यमेषु तिष्ठन्ति, अथ तेऽपि न प्राप्यते ततः संज्ञिषु काथिकतरुणेषु, तदभावेऽसंज्ञिष्वपि काथिकतरुणेषु तिष्ठन्ति, ते चोभयेऽपि प्रज्ञापनीया यथा कथां न कथयन्ति । एवं पुरुषेषु स्थातव्ये विधिरुक्तः । एवमेव च नपुंसकेष्वपि वक्तव्यः ॥ इदमेव भावयति
[ भा. २५७० ] एमेव होंति दुविहा, पुरिसनपुंसा वि सन्नि अस्सनी | मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ||
वृ- पुरुषसागारिकालाभे कदाचिन्नपुंसकसागारिकः प्रतिश्रयो लभ्यते तत्रोप्येवमेव भैदाः कर्त्तव्याः । तत्र नपुंसकाद्वि- स्त्रीनेपथ्यकाः पुरुषनेपथ्यकाश्च । ये पुरुषनेपध्यिकास्ते द्विधाI प्रतिसेविनोऽप्रतिसेविनश्च । ये तु स्त्रीनेपथ्यिकास्ते नियमात् प्रतिसेविनः । तत्र पुरुषनपुंसका अपि न केवलं पुरुषा इत्यपिशब्दार्थः संज्ञिनोऽसंज्ञिनश्चेति द्विविधा भवन्ति । उभयेऽपि प्रत्येकं चतुर्विधाः- मध्यस्था आभरणप्रियाः कान्दर्पिकाः काथिकाश्चेति ॥
[भा. २५७१] एक्क्का ते तिविहा, थेरा तह मज्झिमा य तरुणा य एवं सन्नी बारस, बारस अस्सनिणो होंति ।।
वृ- एकैकाः 'ते' मध्यस्थादयस्त्रिविधाः स्थविरा मध्यमास्तरुणाश्च । एवं संज्ञिनो द्वादश असंज्ञिनोऽपि द्वादश भवन्ति ॥ एतेषु प्रायश्चित्तमाह
[भा. २५७२ ] जह चेव पर पुरिसेसुं, सोही तह चेव पुरिसवेसेसु । तेरासिएस सुविहिय!, पडिसेवग अपडिसेवीसु ॥
वृ-यथैव पुरुषेषु शोधिरुपवर्णिता तथैव पुरुषवेषेष्विपि 'त्रैराशिकेषु' नपुंसकेषु हे सुविहित! प्रतिसेवकेषु अप्रतिसेवकेषु वा शोधिं जानीहीत्युपस्कारः 1 सा चेयम् - पुरुष नपुंसकानां ये काधिकास्तरुणास्तेषु चत्वारो गुरवः, शेषेषु भेदेषु चतुर्लघुकाः । कारणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरुषनपुंसकेष्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः ॥ [भा. २५७३] जह कारणे पुरिसेसुं, तह कारणे इत्थियासु वि बसेज्जा । अद्धाण-वास- सावय-तेनेसु व कारणे वसती ॥
वृ-यथा कारणे पुरुषेषु पुरुषेवेषनपुंसकेषु वा वसन्ति तथा स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु कारणे वसेयुः । किं पुनस्तत् कारणम् ? इत्याह-अध्वानं प्रितपन्नास्ततो निर्गता वा शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उद्यानादौ तिष्ठन्ति । अथ वर्षं पतति बहिर्वा श्चापदभयं शरीरोपधिस्तेनभयं वा तत ईद्दशे कारणे स्त्रीसागारिके तदभावे स्त्रीवेषधारिषु वा नपुंसकेषु पूर्वोक्तक्रमेण वसन्ति ॥ निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org