________________
९६
बृहत्कल्प-छेदसूत्रम् -२-१/२५ सञ्जाताः । धूर्तेश्च सह संयोगः । कथम् ? इत्याह- 'सिन्दूरं' सिन्दूरारुणं यद् देवकुलं तत्र शालभञ्जिकानां पश्च शतानि ताभिर्देवताभिः परिगृहीतानि । तत्र स्थिताश्च धूर्ते समं सम्प्रलग्नाः । “तुह मज्झे" ति 'नेयं तव, ममेयम्' इत्येवं ते धूर्ता कलहायितवन्तः । ततस्तासां पूर्वभववृत्तान्तं श्रुत्वा 'अवर्णोऽयमस्माकम्' इति कृत्वा पुत्रादिभिर्विद्याप्रयोगेण तासां कीलना कारितेति । उक्तः प्रथमो भङ्गः । अथ शेषभङ्गत्रयं भावयति
[मा. २५०८] बिइयम्मि रयणदेवय, तइए भंगम्मि सुइगविज्जाओ । गोरी - गंधाराइ, दुहविण्णप्पा य दुहमोया ||
वृ- द्वितीयभङ्गे रत्नदेवता निदर्शनम्, सा ह्यल्पर्द्धिकत्वात् कामातुरत्वाच्च सुखविज्ञपना सर्वसुखसम्पादकतया च दुःखमोचा। तृतीये भङ्गे शुचयो विद्यादेव्यो निदर्शनम्, ता हि शुचितया महर्द्धिकतया च दुःखविज्ञपना उग्रतया नित्यमत्यन्ताप्रमत्तैराराधनीयत्वात् पर्यन्ते सापायत्वाच्च सुखमोचाः । चतुर्ये भङ्गे गौरी-गान्धारीप्रभृतयो मातङ्गविद्यादेवता द्रष्टव्याः, तथाहि ताः साधनकाले लोकगर्हिततया दुःखविज्ञप्या यथेष्टकामसम्प्रापकतया च दुःखमोचा इति ।।
भाविताश्चत्वारो भङ्गाः । अथ प्राजापत्यादित्रिविधपरिगृहीते गुरुलाघवमाह[ भा. २५०९ ] तिन्ह वि कतरो गुरुतो, पागइ कोडुबि दंडिए चेव । साहस अपरिक्ख भए, इयरे पडिपक्ख पभु राया ॥
वृ- शिष्यः पृच्छति - 'त्रयाणां प्राजापत्य- कौटुम्बिक - दण्डिकपरिगृहीतानां मध्यात् कतरद गुरुतरम् ? । गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः । शिष्य एवाह अहं तावद् भणामि - प्राजापत्यपरिगृहीतं गुरुकम्, कौटुम्बिक - दण्डिकपरिगृहीतं लघुतरम्, यतः “साहस”त्ति प्राकृतजनो मूर्खतया साहसिकोऽपरीक्षितकारी च भवति, अनीश्चरतया च तस्य तथाविधं भयं न भवति, अतोऽसौ मरणमप्यध्यवस्य तं साधुं मारयेत्, तेनास्य गुरुतरो दोषः । 'इतरौ नाम' कौटुम्बिकदण्डिकौ तौ प्राकृतिकस्य प्रतिपक्षभूतौ । किमुक्तं भवति ? -तौन साहसिकौ, नाप्यपरीक्षितकारिणौ, भयं च तयोर्भवति । अत्राचार्य प्राह- दण्डिक-कौटुम्बिकौ गुरुतरौ, प्राकृतो लघुतरः, यतो राजा उपलक्षणत्वात् कौटुम्बिकश्च प्रभुः प्रभुत्वाच्च स एकस्य रुष्टः सङ्घस्य प्रस्तारं कुर्यादिति ॥ अथ कौटुम्बिक - दण्डिकानां यद् भयमुत्पद्यते तद् दर्शयन् परः स्वपक्षं द्रढयन्नाह - ईसरियत्ता रज्जा व भंसए मन्नुपहरणा रिसओ ।
[भा. २५१०]
तेय समिक्खियकारी, अन्ना वि य सिं बहू अस्थि ॥
वृ- एत ऋषयः ‘मन्युप्रहरणाः' शापायुधा अतः कोपिताः सन्तो मामैश्वर्याद् भ्रंशयेयुरिति कौटुम्बिकश्चिन्तयेत्, राजा तु आममी राज्याद् भ्रंशयेयुरिति चिन्तयति । 'ते च' राजादयः ‘समीक्षितकारिणः' नाविमृश्य कार्यं कुर्वन्ति । अन्यच्च तेषामन्या अपि बहवः प्रतिमाः सन्ति अतस्तस्यामेकस्यामेव तेषां नादरः ।। एवं परेण स्वपक्षे भाविते सति सूरिराह
[मा. २५११] पत्थारदोसकारी, निवावराहो य बहुजने फुसइ ।
पागइओ पुन तस्सव, निवस्स व भया न पडिकुज्जा ।।
दृ- प्रस्तारः - कटकमर्दः, एकस्य रुष्टः सर्वमपि यत्र व्यापादयतीत्यर्थः, तद्दोषकारी राजा, नृपापराधश्च 'बहुजनान् स्पृशति' बहुजनमध्ये प्रकटीभवतीति भावः । एवं कौटुम्बिकस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org