________________
उद्देशक : १, मूलं-२५, [भा. २४९२]
९३
भावतस्तु ज्ञानादिजले जीवकुल्यायां वहानतृणादिकचवरस्थानीयया चित्तविप्लुत्या निरुद्धे सति चारत्रसस्यविनाशो जायते सा विश्रोतसिकेत्युच्यते । तया स्मृतिकरणं भुक्तभोगिनाम्, अभुक्तभोगिनां तु कौतुकमालिङ्गनादयश्च दोषा भवन्ति । एतेऽसन्निहिते प्रतिमारूपे तिष्ठतो दोषाः ॥ अथ विकथापदमालिङ्गनादिपदं च विवृणोति
[भा.२४९३]सुटु कया अह पडिमा, विनासिया न वि य जाणसि तुमं पि । इय विकहा अहिगरणं, आलिंगणे भंगे भद्दितरा ॥
वृ- एकः साधुर्बुवीति - सुष्ठु कृतेयं प्रतिमा, द्वितीयः प्राह विनाशितेयं नापि च जानासि त्वमपि इत्येवं विकथा । ततश्चोत्तरप्रत्युत्तरिकां कुर्वतस्तयोरधिकरणं भवति । अथ कोऽप्युदीर्णमोहस्तां प्रतिमामालिङ्गेत् तत आलिङ्गने प्रतिमाया हस्त पादादिभङ्गो भवेत् । सपरिग्रहायां च प्रतिमायां भद्रकेतरदोषाः-भद्रको हस्त-पादादिभङ्गे सञ्जाते सति पुनः संस्थापनं विदध्यात् प्रान्तस्तु ग्रहणाऽऽकर्षणादीनि कुर्यात् ॥ एतेऽसन्निहिते दोषा उक्ताः । सन्निहितेऽपि त एव वक्तव्याः, एते चाभ्यधिकाः
[भा. २४९४] वीमंसा पडिनीयट्ठया व भोगत्थिणी व सन्निहिया । काणच्छी उक्कं पण, आलाव निमंतण पलोभे ॥
वृ- या तत्र सन्निहिता देवता सा त्रिभि कारणैः साधुं प्रलोभयेत्-विमर्शाद्वा प्रत्यनीकार्थतया वा भोगार्थितया वा । विमर्शो नाम 'किमेष साधुः शक्यः क्षोभयितुं न वा ?' इति जिज्ञासा तया प्रतिमायामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां विदधीत, आलापं वा कुर्यात्अमुकनामधेय ! कुसलं तव ? इत्यादि, निमन्त्रणं वा विदध्यात् मया सह स्वामिन्! भोगानुपभुंक्ष्व, प्रलोभनं वा कक्षान्तरोरुदर्शनेन कुर्वीत ॥
[भा. २४९५ ] काणच्छिमाइएहिं, खोभिय उद्घाइयस्स भद्दा उ । नासइ इयरो मोहं, सुवण्णकारेण दिट्टंतो ।।
वृ-यदा काणाक्षिप्रभृतिभिराकारैः क्षोभितस्तदा 'गृह्णाभ्येनाम्" इत्यभिप्रायेणोद्धा - वितस्ततस्तस्य सा देवता यदि भद्रा त्ततो नश्यति । 'इतरः' साधुस्तस्यामदर्शनीभूतायां मोहं गच्छति, सम्मूढश्च तां द्रष्टुमिच्छति, 'हा कुत्र गताऽसि ? देहि सकृदात्मीयं दर्शनम्' इत्यादिप्रलापाँश्च करोत । अत्र च 'सुवर्णकारेण' चम्पानगरीवास्तव्येन अनङ्गसेनाख्येन दृष्टान्तः, स च आवश्य- कादिग्रन्थेषु सुप्रसिद्धः ।। अथ प्रत्यनीकार्थतयेति व्याचष्टे
[भा. २४९६] वीमंसा पडिनीया, विद्दरिसण-ऽ क्खित्तमादिणो दोसा । असंपत्ती संपत्ती, लग्गरस य कड्डणादीणि ।।
वृ- प्रत्यनीकाऽपि 'विमर्शात्' काणाक्षिप्रभृतिभिराकारैः क्षोभयित्वा यदाऽसौ उद्धावितस्तदा "असंपत्ति "त्ति यावदस हस्तादिना नैव गृह्णाति तावद् 'विदर्शनं' विकृतं रूपं दर्शयति, अथवा 'विदर्शनं नाम' अलग्नमेव लोको लग्नं पश्यति । यद्वा सा तस्य साधोः क्षिप्तचित्तादिदोषान् कुर्यात् । अथवा परिभोगसम्पत्तिं कृत्वा तत्रैव तस्य सागारिकं लापयेत् श्वानादिवत् । लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्ट्वा ग्रहणा ऽऽकर्षणादीनि कुर्यात् ॥ एतदेव व्याचष्टे
[भा. २४९७] पंता उ असंपत्तीइ चेव मारिज खेत्तमादी वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org