________________
८८
बृहत्कल्प-छेदसूत्रम् -२-१/२५
कट्ठे पुत्थे चित्ते, जहन्नयं मज्झिमं च दंतम्मि ।
लम्मि य उक्कोसं, जं वा रूवाउ निष्फनं ॥
[भा. २४६९]
- या दिव्यप्रतिभा काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा क्रियते तद् जघन्यं दिव्यरूपम्। या तु हस्तिदन्ते क्रियते तद् मध्यमम् । या पुनः शैले चशब्दाद् मणिप्रभृतिषु च क्रियते तदुत्कृष्टम् । यद्वा रूपाद् निष्पन्नं जघन्यादिकं द्रष्टव्यम् या दिव्यप्रतिमा विरूपा तद् जघन्यं दिव्यरूपम्, या तु मध्यमरूपा तन्मध्यमम्, या पुनः सुरूपा तदुत्कृष्टम् । अत्र चौघतः प्रतिमायुते उपाश्रये तिष्ठतश्चत्वारो लघुकाः प्रायश्चित्तम् ॥ अथौघविभागतः प्रायश्चित्तमाह
[ भा. २४७० ] ठाण पडिसेवणाए, तिविहे वी दुविहमेव पच्छितं । लहुगा तिनि विसिा, अपरिगहे ठायमाणस्स ।।
वृ- 'त्रिविधेऽपि' जघन्यमध्यमोत्कृष्टभेदभिन्ने दिव्ये प्रतिमायुते तिष्ठतो द्विविधं प्रायश्चित्तम्स्थाननिष्पन्नं प्रतिसेवनानिष्पन्नं च । तत्र स्थाननिष्पन्नमिदम्-दिव्ये प्रतिमायुतेऽपरिगृहीते तिष्ठतस्त्रयश्चतुर्लघुकास्तपः - कालविशिष्टाः, तद्यथा - जघन्ये चत्वारो लघुकास्तपसा कालेन च लघुकाः, मध्यमे त एव कालगुरुकाः, उत्कृष्टे त एव तपोगुरुकाः ।। अथ परिगृहीते प्रायश्चित्तमाह[भा. २४७१] चत्तारि य उग्धाया, पढमे बिइयम्मि ते अनुग्घाया । छम्मासा उग्धाया, उक्कोसे ठायमाणस्स ।।
वृ- प्रथमं जघन्यं तत्र तिष्ठतश्चत्वारः 'उद्धातिमाः' लघवो मासाः । द्वितीयं मध्यमं तत्र 'त एव' चत्वारो मासाः 'अनुद्धाताः' गुरुका इत्यर्थः । उत्कृष्टे तु तिष्ठतः षण्मासा उद्धाताः, षड्लघव इत्यर्थः ॥
[ भा. २४७२] पायावच्चपरिग्गहे, दोहि वि लह होंति एते पच्छित्ता । कालगुरू कोडुंबे, दंडियपारिग्गहे तवसा ॥
वृ- एतानि च प्रायश्चित्तानि प्राजापत्यपरिगृहीते 'द्वाभ्यामपि तपः- कालाभ्यां लघुकानि द्रष्टव्यानि । कौटुम्बिकपरिगृहीते एतान्येव कालगुरुकाणि । दण्डिकपरिगृहीते एतान्येव तपसा गुरुकाणि ॥ इदं च यस्माज्जघन्यादिविभागेन निर्दिष्टं सन्निहिताऽसन्निहितभेदेन न विशेषितं तस्मादेतदोघविभागप्रायश्चित्तमभिधीयते । अथ विभागप्रायश्चित्तं निरूपयितव्यम्, तत्र चैतान्येव जघन्यमध्यमोत्कृष्टानि सन्निहिता सन्निहितभेदाभ्यां विशेष्यमाणानि षट् स्थानानि भवन्ति, एतेषु प्रायश्चित्तमाह
[ भा. २४७३]
[भा. २४७४]
- प्रथमं नाम- जघन्यमसन्निहितं द्वितीयं जघन्यं सन्निहितं तृतीयं मध्यममसन्निहितं चतुर्थमध्यमं सन्निहितं पञ्चमम्-उत्कृष्टमसन्निहितं षष्ठम् - उत्कृष्टं सन्निहितम् । अत्रायमुच्चारणविधिजघन्यकेऽसन्निहिते प्राजापत्यपरिगृहीते तिष्ठति चत्वार उद्धाता मासाः सन्निहिते तिष्ठति 'त एव' चत्वारो मासा अनुद्धाताः, मध्यमकेऽसन्निहिते चत्वारो मासा अनुद्धाताः, सन्निहिते षण्मासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
चत्तारि य उग्घाता, पढमे बिइयम्मि ते अनुग्घाया । तइयम्मि अनुग्घाया, चउत्थ छम्मास उग्घाता ॥ पंचमगम्मि वि एवं, छड्डे छम्मास होतऽनुग्धाया । असन्निहिए सन्निहिए, एस विही ठायमाणस्स ।।