________________
बृहत्कल्प-छेदसूत्रम् -२-१/१२ ततोऽनिच्छती बलादपि संयती बहिर्गृह्णीयुः । “तेना उवहिं व ताओ वा” इति पदं व्याख्यायते"तेनोवहिनिफन्ना" इत्यादि । शून्यगृहादिषु स्थितानां साध्वीनां स्तेना यधुपधिमपहरेयुः तत उपधिनिष्पन्नाशोधिः । तद्यथा-जघन्यमुपिमपहरन्ति पञ्चकम्, मध्यमपहरन्तिमासिकम्, उत्कृष्टमपहरन्ति चतुर्लघु । संयतीहरणे मूलादिकं चरमं यावत् प्रायश्चित्तमाचार्यस्य मन्तव्यम्, तद्यथाएकां संयतीमपहरन्ति मूलम्, द्वे अपहरन्त्यनवस्थाप्यम्, तिस्रोऽपहरन्ति पाराञ्चिकम् ॥
अथातरैव प्रकारान्तरेण दोषान् दिदर्शयिषुराह नियुक्तिकारः[मा.२३१३] ओभावना कुलरे, ठाणं वेसिस्थि-खंडरक्खाणं ।
उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो । कृ-तत्र स्थितानामप्रभाजना 'कुलगृहे' कुलगृहस्य भवति । वेश्यास्त्रीणां खण्डरक्षाणां चआरक्षिकाणांस्थानं तदापणगृहादि भवेत् । उद्धर्षणा च प्रवचने।तथा सद्यश्चारित्रात् परिभ्रंशना चोपजायते ।। तत्र कुलगृहस्थापभ्राजना भाव्यते-आपणगृहादौ स्थितास्ता दृष्ट्वा कश्चित् तदीयज्ञातीनामन्तिके गत्वा ब्रूयात्[मा.२३१४] ससिपाया वि ससंका, जासिं गायाणि सन्निसेविंसु ।
कुलफुसणीउ ता भे, दोन्नि विपक्खे विधंसिंति॥ वृ- यासां युष्मदीयसुता-स्नुषादीनां प्रयत्नेन संरक्ष्यमाणानां गात्राणि 'शशिपादा अपि' चन्द्रमरीचयोऽपि ‘सशङ्काः' चकिता इव सनिषेवितवन्तः, ताश्चेदानीमेवमापणगृहादो वसन्त्यः "भे" भवतां 'कुलस्पृशिन्यः' कुलमालिन्यकारिण्यः 'द्वावपि पक्षौ' पैतृक-श्वशुरपक्षलक्षणी 'विधर्षयन्ति विनाशयन्तीत्यर्थः । एवं कुलगृहस्यापधाजना भवति ।।
अथ “स्थानं वेश्यास्त्री-खण्डरक्षाणाम्' इति पदं विवृणोति[भा.२३१५] छिनाइवाहिराणं, तं ठाणं जत्थ वा परिवसंति ।
इय सोउं दह्ण व, सयं तु ता गेहमाणिति ।। वृ-यत्र 'ताः' श्रमण्यः परिवसन्तितत् छिन्नादिबाह्यानां स्थानम्, छिन्नाः-छिन्नालाः,आदिशब्दाद् वेश्या-खण्डरक्ष-विट-द्यूतकारादयो ये बाह्याः-विशिष्टजनबहिर्वर्तिनः, तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः संज्ञातकाः इति एवंवृत्तान्तं श्रुत्वा दृष्टवावा 'ताः' सम्बन्धिसंयतीः स्वकंगृहमानयन्ति, अलमनया प्रव्रज्यया यत्रैवंविधे स्थाने वासो विधीयते ॥ अथ "उद्धर्षणा प्रवचने" इति पदं व्याख्याति[भा.२३१६] पेच्छह गरहियवासा, वइणीउ तवोवणं किर सियाओ।
किं मन्ने एरिसओ, धम्मोऽयं सत्थगरिहा य ।। वृतास्तत्रापणगृहे दृष्टवा कश्चिद् ब्रूयात्-पश्यत भो लोकाः ! यदेवं गर्हितवासाः' शिष्टजनजुगुप्सिते स्थानेस्थिता व्रतिन्यस्तपोवनंकिल श्रिताः' आश्रितवत्यः, किं मन्ये एतत्तीर्घकृता ईशोऽयं धर्मो दृष्टः ? इत्येवं शास्तुः-तीर्थकरस्य गरे भवति ।। [भा.२३१७] साहूणं पि य गरिहा, तप्पक्खीणं च दुञ्जणो हसइ।
अभिमुहपुनरावत्ती, वचंति कुलप्पसूयाओ॥ वृ-साधूनामपिच गर्हाजायते-अहो! सदाचारबहिर्मुखाअमी येस्वकीयाः संयतीरित्थमस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org