________________
२८
बृहत्कल्प-छेदसूत्रम् -२-१/१०
षड् गुरवः । ग्रामस्य कथयति च्छेदः । ग्रामबहिर्निर्गत्य कथयति मूलम् । ग्रामसीमायां कथनेऽनवस्थाप्यम् । सीमानमतिक्रम्य कथयति पाराञ्चिकम्।। कीशी पुनः शङ्का भवति? इत्याह[भा.२१७६] कुचियं नु पप्तादेती, आओ सीसेण जायए विरहं ।
आओ तलपन्नविया, पडिच्छई उत्तिमंगेणं ।। वृ-'नुः' इति वितर्के, किमेषा संयती कुपितं सन्तमेनं संयतंप्रसादयति? आहोश्चित् 'शीर्षण' मस्तकेन 'विरहः' एकान्ते याचते? उताहोअनेन साधुनातलेन-चप्पुटिकादिकरणेन प्रज्ञापिता सती प्रार्थनामुत्तमाङ्गेन प्रतीच्छति? ॥ [भा.२१७७] इइ संकाए गुरुगा, मूलं पुन होइ निध्विसंके तु।
सोही वाऽसन्नतरे, लहुगतरी गुरुतरी इयरे॥ वृ-'इति' एवं शङ्कायां चत्वारो गुरुकाः । अथ निर्विशङ्क-कुपित-प्रसादनाद्यर्थमेव करोतीति मन्यतेततो द्वयोरपि मूलम् । भोजिकादिश्चयो यस्तस्यसम्बन्धेनासन्नतरस्तत्रतत्रशोधिलघुकतरा। 'इतरस्मिन्’ घाटिक-ज्ञात्यादौ दूरतरे गुरुकतरा ।। अथ किमिति ज्ञातीनां प्रथमं न कथयति? इत्याह[भा.२१७८] विस्ससइ भोइ-मित्ताइएसु तो नायओ भवे पच्छा।
जह जह बह जननायं, करेइ तहवड्डए सोही॥ वृ-भोजिका-मित्रादिषु शरीरमा भन्नेषु न किमपि गोपनीयमस्तीति कृत्वा यतोऽसौ विश्वसिति ततः 'ज्ञातीन्' स्वजनान् पश्चाद् ज्ञापयति । यथा यथा चासौ बहुजनज्ञातं करोति तथा तथा 'शोधि' प्रायश्चित्तं वर्द्धते ।। अथासौ ज्ञाप्यमानो जनः प्रतिषेधयति ततः प्रायश्चित्तमप्युपरमते । तथा चाह[मा.२१७९] पडिसेहो जम्मि पदे, पायच्छित्तं तु ठाइ पुरिमपए।
निस्संकियम्मि मूलं, मिच्छत्त पञ्जणा सेसे। वृ-तेन पुरुषेण भोजिकाया आख्यातम्-मया संयती संयतं शीर्षप्रणामेनावभाषमाणा दृष्टा, ततः सा प्रतिषेधयति-न भवत्येवम्, मैवमसमअमंवोच इति; ततःप्रायश्चित्तमप्युपरतम्।अथासौ तयानप्रतिषिद्धस्ततःप्रायश्चित्तं वर्द्धते । एवंघाटिकादिष्वपिवक्तव्यम् । ततोयस्मिन् भोजिकादौ पदेप्रतिषेधस्ततः 'पूर्वपदे शङ्कादौप्रायश्चित्तं तिष्ठति, नोर्द्धवंवर्द्धते। तथा कुपित-प्रसादनाद्यर्थमेव करोति' इति निशङ्कितेमूलम् । एवं मिथ्यात्वं शेषस्यच' भोजिकादिविषय प्रायश्चित्तस्य प्रसजना भवतीति । कथं पुनर्भोजिकादयः प्रतिषेधयन्ति? इत्याह[भा.२१८०] किइकम्मं तीए कयं, मा संक असंकणिज्ञचित्ताई।
नवि भूयं न भविस्सइ, एरिसगं संजमधरेसुं॥ वृ-'कृतिकर्म' वन्दनकं तया' संयत्या कृतम्, माअशङ्कनीयचित्तेअमूशंङ्किष्ठाः, नापि भूतम् अपिशब्दाद् न भवतिन च भविष्यति ईशंभवत्परिकल्पितं कुपित-प्रसादनादिकमसमञ्जसचेष्टितं 'संयमधरेषु' साधु-साध्वीजनेषु ।।
एवं विचारभूमौ गच्छतां दोषा उक्ताः । अथ भिक्षाचर्यायां तानेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org