________________
उद्देशकः १, मूलं-८, [भा. २०९५]] परस्परंसमायोगः। एतानि पृथक्पृथग्भाजनेषुगृह्यमाणानिन संयमाधुपघाताय जायन्ते॥अपिच[मा.२०९६] नत्थिय मामागाई, मागउग्गामोयतासिमब्मासे ।
सी-उण्हगिण्हणाए, सारक्खण एक्कमेक्कस्स ॥ न च सन्ति तासां मामाकानि कुलानि, नहि कोऽपि स्त्रीजनं गृहे प्रविशन्तीमीयया निषेधयतीति भावः । मातृग्रामो नामसमयपरिभाषया स्त्रीवर्ग, चशब्दएवकारार्थः, तत इदमुक्तं भवति-स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां संयतीनामभ्यासे स्त्रीत्वसम्बन्धमधिकृत्य प्रत्यासत्तौ वर्त्तते, अतसत्रिप्रभृतीनामपि पर्यटन्तीनां सुखेनैव भक्त-पानं पर्याप्तं भवति । शीतोष्णग्रहणेन च संरक्षणमेकैकस्याः परस्परं कृतं भवति॥कथं पुनः ? इत्यत आह[भा.२०९७) एगस्थ सीयमुसिणं, च एगहिं पानगं च एगत्था ।
दोसीणस्स अगहणे, चिराडणे होजिमे दोसा ।। -एकत्र प्रतिग्रहे 'शीतं पर्युषितंभक्तं गृह्णन्ति, एकस्मिन्नुष्णम्, एकत्र चपानकम्, एतच्च तिसृणामटन्तीनां घटामाटीकते । अथ द्वेपर्यटतस्तत एकत्र प्रतिग्रहे उष्णं द्वितीयत्र तुपानकं परं दोषानं कुत्र गृह्णन्ति ? मात्रकं तु स्वार्थं परिभोक्तुंन कल्पते, अथोष्णमध्ये दोषान्नं गृह्णन्ति तदा देहविरुद्धं भवति, अथ दोषान्नं न गृह्णन्ति ततो दोषान्नस्याग्रहणे 'चिराटने चिरं पर्यटन्तीनां तरुणादिकृतोपसर्ग स्त्रीवेद उध्दीप्येत । तथा चामुमेवार्थं दर्शयितुं वेदत्रयस्वरूपमाह[भा.२०९८] थी पुरिसो अनपुंसो, वेदो तस्स उइमे पगाराउ ।
फुफुम-दवग्गिसरिसो, पुरदाहसमो, भवे तइओ। कृवेदस्त्रिधा-स्त्रीवेदःपुरुषवेदो नपुंसकवेदश्च।तस्यतुत्रिविधस्यापि यथाक्रमममीप्रकाराःस्त्रीवेदः फुम्फुकाग्निसशः-करीषाग्नितुल्यः, यथाकरीषाग्निर्नतर्धगधगन्नास्तेन परिस्फुटंप्रज्वलति नवा विध्यायति चालितस्तु तत्क्षणादेवोद्दीप्यते एवं स्त्रीवेदोऽपि । पुरुषवेदस्तु दवाग्निसशः, यथादवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विध्यायति एवं पुरुषवेदोऽपि।तृतीयोनपुंसकवेदः सपुरदाहसमः, यथा हि महानगरदाहे वह्नि प्रज्वलितः सन्ना वा शुष्क वा सर्वत्र दीप्यते एवं नपुंसकवेदोऽपि स्त्रियां पुरुषे वा सर्वत्र दीप्यते न चोपशाम्यति ।।
इत्य वेदत्रयस्वरूपमुपदर्य प्रस्तुतयोजनामाह[भा.२०९९] जह फुफुमा हसहसेइ घट्टिया एवमेव थीवेदो।
दिप्पइ अविकिढियाण वि, आलिंगण-छे(छंदणाईहिं॥ कृयथा फुम्फुकाग्निट्टितः सन् “हसहसेइ"त्ति देदीप्यते एवमेव स्त्रीवेदोऽप्यालिङ्गनच्छेदनादिभिरुदीरितः सन् “किढियाण वि"त्ति स्थविराणामपि दीप्यते, किं पुनस्तरुणीनाम् ? इत्यपिशब्दार्थः॥ आह स्थविराणां कयं वेदोद्दीपनं भवति? इति उच्यते[भा.२१००] नवओ इत्थ पमाणं, न तवस्सित्तं सुयं न परियाओ।
अवि खीणम्मि वि वेदे, धीलिंगं सव्वहा रक्खं ॥ कृन 'वयः' वार्द्धकादिकम् अत्र विचारे प्रमाणम्, न वा तपस्वित्वम् अनशनादि- तपःकर्मकारिता, नवा 'श्रुतम्' आचारादिकंसुबहप्यवगाहितम्, नवा 'पर्यायः' द्राधीयःप्रव्रज्याकाललक्षणः, एतेषु सत्स्वपि वेदोदयो भवेदित्यर्थः । अपि च 'क्षीणेऽपि' निदग्धेन्धनकल्पे कृतेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org