________________
उद्देश : १, मूलं - ८, [ भा. २०८४ ]
निवेद्य तैः प्रज्ञाप्यते । यदि स्थितस्ततो लष्टम् ॥
[ भा. २०८५] तह विय अठायमाणे, वसभा भेसिंति तहवि य अठते । अमुत्थ घरे एज्जह, तत्थ य वसभा वतिणिवेसा ||
वृ- तथाप्यतिष्ठति तस्मिन् प्रत्यनीके 'वृषभाः ' गच्छस्य शुभा ऽशुभकार्यचिन्तानियुक्तास्तं प्रत्यनीकं भापयन्ति । तथाप्यतिष्ठति यस्तरुणः कृतकरणः साधुः स संयतीनेपथ्यं कृत्वा तस्य सङ्केतं प्रयच्छति, यथा-अमुकत्र गृहे यूयमागच्छत । ततो वृषभा व्रतिनीनां वेषं परिधाय तेन साधुना सह तत्र गत्वा प्रत्यनीकस्य शिक्षां कुर्वन्ति । तथाप्यनुपशान्ते तस्मिन् सागारिकस्य निवेद्यते । तेनोपलब्धो यदि स्थितस्ततः सुन्दरम् ॥
[ भा. २०८६ ]
अथ नास्ति तदानीं सन्निहितः सागारिकस्ततः किं कर्तव्यम् ? इत्याहसागारिए असंते, किच्चकरे भोइयस्स व कहिंति । अन्नत्थ ठाण निंती, खेत्तस्सऽसती णिवे चैव ॥
वृ- सागारिके 'असति' अस्निहिते 'कृत्यकरस्य' ग्रामचिन्तानियुक्तस्य 'भोगिकस्य वा ' ग्रामस्वामिनः कथयन्ति । तेन शासितोऽपि यदि नोपरमते ततः संयतीरन्यत्र 'स्थाने' क्षेत्रे नयन्ति । अथ नास्ति संयतीप्रायोग्यपरं क्षेत्रंस्वयं वा संयत्यो ग्लानादिकार्यव्यापृता न शक्नुवन्ति क्षेत्रान्तरं गन्तुं ततः 'नृपस्य ' दण्डिकस्य निवेद्यते, स प्रत्यनीकमुपद्रवन्तं निवारयति । तं प्रत्यनीकद्वारम् । अथ भिक्षानिर्गमद्वारमभिधित्सुराह
[ भा. २०८७] दो थेरि तरुणि थेरी, दोन्नि य तरुणीउ एक्किया तरुणी । चउरो अ अनुग्घाया, तत्थ वि आणाइयो दोसा ।।
वृ- अत्र गुरिनियोगतश्चणिरिव लिश्यते-जति दोन्नि थेरीओ निग्गच्छंति भिक्खस्स ण्का, तरुणी थेरी यजति का, दो तरुणीओ जति निग्गच्छंति का, एगा थेरी जति निग्गच्छइण्का, एक्किया तरुणी जति निग्गच्छइ का, तत्राप्याज्ञादयो दोषाः ॥ कुतः ? इत्याह
[मा. २०८८]
११
चउकनं होज्ज रहं, संका दोसा य थेरीयाणं पि ।
कुट्टिणिसहिता बितिए, तइय- चउत्थीसु धुत्ति त्ति ॥
वृ-दोहं थेरीणं दोसे- दुवे अभिन्नरहसीओ होज्जा, संकाय किं मन्त्रे केणइ दूतिकिच्चेणं निउत्तियाओ? असंकणिज्जाओत्तिकाउं । तरुणी थेरी य लोगो भणेज्जा-कुट्टिणिसहिया हिंडइ, “बितिए'त्ति पगारे निग्गमस्स । दो तरुणीओ धुत्तीओ संभाविज्जति । एगा वि थेरी धुत्ती संभाविज्जइ । एगा तरुणी तणिज्जा ॥ यस्मादेते दोषाः तस्मादयं विधिः
[भा. २०८९] पुरतो य मग्गतो या, थेरीओ मज्झ होंति तरुणीओ । अइगमने निग्गमने, एस विही होइ कायव्वो ।
वृ- 'पुरतः ' अग्रतः 'मार्गतश्च' पृष्ठतः स्थविरा भवन्ति, मध्यभागे पुनस्तरुण्यः, एवं बह्वीनां सम्भूय पर्यटन्तीनामुक्तम् । जघन्येन तु तिः सहैव पर्यटन्ति, तत्रैका स्थविरा पुरतः द्वितीया स्थविरैव पृष्ठतः तृतीया तुरणी तयोर्द्वयोरपि मध्यभागे स्थिता सती पर्यटन्ति । एवम् 'अतिगमने' गृपतिगृहप्रवेशे 'निर्गमने च ' तत एव निर्गमे एषविधि कर्त्तव्यो भवति ॥
कुतः ? इति चेद् उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org