________________
८
बृहत्कल्प-छेदसूत्रम् -२-१/८
[भा. २०७० ] निप्पञ्चवाय संबंधि भाविए गणहरऽ प्पविइ-तइओ । इ भए पुन सत्ये सद्धिं कयकरणसहितो वा ॥
वृ- 'निष्प्रत्यपाये' उपद्रवाभावे संयतीनां ये 'सम्बन्धिनः' स्वज्ञातीयः 'भाविताश्च' सम्यक्परिणतजिनवचना निर्विकाराः संयतास्तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्रं नयति । अथ स्तेनादिभयं वर्त्तते ततः सार्थेन सार्द्ध नयति, यो वा संयतः कृतकरणः-इषुशास्त्रे कृताभ्यासस्तेन सहितोऽसौ संयतीस्तत्र नयति । सच गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः । अत्रैव मतान्तरमुपन्यस्य दूषयन्नाहउभयट्ठाइनिविट्ठ, मा पेल्ले वइणि तेण पुर एगे । तं तु न जुज्जइ अविनय विरुद्ध उभयं च जयणाए ।
[मा. २०७१]
दृ- एके सूरयो ब्रुवते - उभयं कायिकी - संज्ञे तदर्थम् आदिशब्दात् परस्मिन् वाक्वचित् प्रयोजने निविष्टम् - उपविष्टं सन्तं संयतं व्रतिनी मा प्रेयतु इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति । अत्राचार्य प्राह- 'तत् तु तदुक्तं न युज्यते । कुतः ? इत्याह-पुरतो गच्छन्तीनां तासामविनयः साधुषु सञ्जयते, लोकविरुद्धं चैवं परिस्फुटं भवति - अहो ! महेलाप्रधानममीषां दर्शनम् । यत एवमतो मार्गतः स्थिता एव ता गच्छन्ति । 'उभयं च' कायिकी -संज्ञारूपं यतनया कुर्यात् । का पुनर्यतना ? इति चेद् उच्यते यत्रैकः कायिकीं संज्ञां वा व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति । तयास्थिताँश्च तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति ॥
गतं गच्छस्याननमिति द्वारम् । अथ वारकद्वारमाह
[भा. २०७२ ] जहियं च अगारिजमो, चोक्खब्भूतो सुईसमायारो । कुडमुहदद्दरएणं, वारगनिक्खेवमा भणिया ।
वृ- 'यस्मिंश्च' ग्रामादौ ‘अगारीजनः' अविरतिकालोकश्चोक्षभूतः शुचिसमाचारश्च वर्तते तत्र वारकग्रहणं निर्ग्रन्थीभिः कर्त्तव्यम् । अथ न कुर्वन्ति ततश्चत्वारो गुरवः, यच्च प्रवचनोड्डाहादिकभुपजायते तन्निष्पन्नं प्रायश्चित्तम् । यत एवमतः कुटमुखे-घटकण्ठके श्लक्ष्णचीवरदर्दरकेण पिहितस्य वारकस्य स्वच्छद्रवभृतस्य निक्षेपणा भणिता भगवद्भिः ॥
एनामेव नियुक्तिगाथां भावयति[ भा. २०७३]
थीपडिबद्धे उवस्सए, उस्सग्गपदेण संवसंतीओ। वच्चंत काइभूमिं मत्तगहत्था न याऽऽयमणं ।।
वृ- उत्सर्गपदेन संयतीभि स्त्रीप्रतिबद्ध उपाश्रये वस्तव्यमिति कृत्वा तत्र संवसन्त्यो यदा कायिकी भूमिं व्रजन्ति तदा 'मात्रकहस्ता' वारकं हस्ते गृहीत्वा व्रजन्ति, यथा तासामगारीणां प्रत्ययो जायते एताः कायिकीं कृत्वा पश्चादाचमनं करिष्यन्ति, अहो ! शुचिसमाचारा इति । तत्र च गतास्तासामदर्शनीभूता आचमनं न कुर्वन्ति, स च वारकोऽन्तर्लिप्तः कर्तव्यः ॥
कुतः ? इत्यत आह
[ भा. २०७४ ] दुक्खं विसुयावेउं, पनगस्स य संभवो अलित्तम्मि । संदते तसपाणा, आवज्रेण तक्कणादीया ॥
वृधारकोऽलिप्तः सन् “विसुयावे" विशोषयितुं "दुक्खं" दुष्करो भवति । अलिप्ते चतत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International