________________
पीठिका - [भा. १७४ ]
पन्नवणमागमे इय, एगट्ठा पजवा सुत्ते ॥
वृ- श्रुतं सूत्रे ग्रन्थः सिद्धान्तः शासनम् आज्ञा वचनम् उपदेशः प्रज्ञापना आगमः 'इति' एते दश 'पर्यायाः' एकार्था सूत्रस्य ॥ एतेषां च सर्वेषामपि पदानां नामादिकश्चतुष्को निक्षेपः । तत्र सर्वत्रापि नाम-स्थापने द्रव्यत आगमतो नोआगमतो ज्ञशरीर भव्यशरीरे प्रतीते । शेषं वक्तव्यम् | तत्र श्रुतमधिकृत्याह
[भा. १७५] दव्वसुयं पत्तग-पुत्थएसु जं पढइ वा अनुवउत्तो । आगम- नोआगमओ, भावसुयं होइ दुविहं तु ॥
वृ- नोग आगमती द्रव्यश्रुतं ज्ञशरीर-भव्यशरीरव्यतिरिक्तं पत्रक-पुस्तकेषु न्यस्तम्, यच्च बाऽनुपयुक्तः पठति तद् नोआगमतो द्रव्यश्रुतम् । भावश्रुतं द्विविधम्-आगमतो नोआगम
तश्च ॥
[भा. १७६ ] आगमओ सुयनाणी, सुओवउत्तो य होइ भावसुयं । सो सुयभावाऽणन्नो, सुयमवि उवओगओऽणत्रं ॥
५१
वृ-तत्राऽऽगमतो भावश्रुतं श्रुतज्ञानी 'श्रुतोपयुक्तः श्रुतज्ञानोपयोगवान्, "उपयोगी भावनिक्षेपः” इति वचनात् । अथ कथं श्रुतज्ञानी श्रुतोपयुक्तो भावश्रुतम् ? अत आह-यस्मात् 'सः' श्रुतज्ञानी श्रुतभावानन्यः, श्रुतमपि जीवस्वभावादुपयोगादनन्यत्, ततः स एव श्रुतज्ञानी भावश्रुतम् ॥ नोआगमतो भावश्रुतमाह
[भा. १७७] जं तं दुसत्तगविहं, तमेव नोआगमो सुयं होइ । सामित्तासंबद्धं, समिईसहियस्स वा जं तु ॥
वृ- यत् 'तत्' प्रागभिहितं 'द्विसप्तविधं' चतुर्दशविधमक्षरश्रुतादि, यदि वा द्वादशप्रकारमङ्गप्रविष्टमाचारादि द्विविधमङ्गबाह्यं कालिकमुत्कालिकं चेति चतुर्दशविधं श्रुतज्ञानं तदेव 'खामित्वासम्बद्धं' पुरुषेषु स्वामित्वेनासम्बद्धम्, पुरुषेभ्यः पृथग्विवक्षितमित्यर्थः, नोआगमतो भावश्रुतम् । यदि वा समितिसहितस्य पुरुषस्योपयुक्तस्य 'यत्' श्रुतं तद् नोआगमतो भावश्रुतम् । अत्र नोशब्दो मिश्रवाची ।। अधुना सूत्रद्वारमाह
[भा. १७८/१] पंचविहं पुन दव्वे, भावम्मि तमेव होइ सुत्तं तु ।
वृ. द्रव्यतो नोगआगमतो व्यतिरिक्तं सूत्रं पञ्चविधम्, तद्यथा - अण्डजं हंसगर्भादि, बोण्डजं कार्पासिकम्, कीटजं कृमिरागम्, वालजमूर्णामयम्, वल्कजं सनसूत्रादि । नोआगमतो भावसूत्रं 'तदेव' यदनन्तरं नोआगमतो भावश्रुतमुक्तम् ॥ ग्रन्थद्वारमाह
[ भा. १७८/२]
सच्चाई गंधो, दव्वे भावे इमं चेव ।।
वृ-द्रव्यतो नोआगमतो व्यतिरिक्तो ग्रन्थस्त्रविधः 'सचित्तादि' सचित्तः अचित्तो मिश्रश्च । एष त्रिविधोऽप्युपरि प्रथमसूत्रे वक्ष्यते । भावे ग्रन्थः 'इदमेव ' कल्पाध्ययनम् ।
अधुना सिद्धान्तद्वारमाह
[भा. १७९] जेन उ सिद्धं अत्यं, अंतं नयतीति तेन सिद्धंतो । सो सव्व-पडीतंतो, अहिगरणे अब्भुवगमे य ॥
वृ-येन कारणेन प्रमाणतः सिद्धमर्थम् ' अन्तं नयति' प्रमाणकोटिमारोहयतीति तेन कारणेन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International