________________
४६६
बृहत्कल्प - छेदसूत्रम् - १-१/६
परिस्फुटम् 'अज्ञाः ' मूर्खा, अतत्त्ववेदित्वात् । स्वच्छन्दप्ररूपणानिष्पन्नं चामीषां चतुर्गुरु प्रायश्चित्तम् ।। तत्र ये सर्वानपि साधून् परिहारं कारयन्ति ते स्वपक्षसाधनसमर्थं विधिमाहुः
[भा. १८३८ ] अद्धाणनिग्गयाई, उब्मामग खमग अक्खरे रिक्खा। गण कहण परंपर, सुव्वत्तमजाणगा ते वि ॥
कृ-यत्र गृहे पुः कर्म कृतं तत्राध्वनिर्गतादयः 'उद्रामका चा' बहिग्रमि भिक्षाटनशीलाः 'अजानन्तो मा प्रविशन्' इति कृत्वा क्षपकस्तत्र स्थाप्यते । अथ नास्ति क्षपकस्ततः कुड्यादावक्षराणि लिख्यन्ते, यथा - अत्र पुरः कर्म कृतम्, न केनापि भिक्षा ग्राह्येति । अथ तावक्षराणि लिखितुं न जानीतस्ततो रेखा कर्त्तव्या । अथ कृताऽपि सा केनापि भज्येत ततोऽपरेषां साधूनां मार्गणं कृत्वा मिलितानां कथनीयम् - अमुष्मिन् गृहे पुरः कर्म कृतम् । तेऽपि परम्परया सर्वसाधून् ज्ञापयन्ति । इत्थं ये ब्रुवते सुव्यक्तं तेऽप्यज्ञा मन्तव्याः ।।
अथैतदेव भावयति
[ भा. १८३९] उभामग-ऽनुब्भामग-सगच्छ-परगच्छजाणणट्ठाए । अच्छइ तहयं खमओ, तस्सऽ सइ स एव संघाडो ॥
वृ- उद्भ्रामकाणां बाह्यग्रामे भिक्षाटनं विधायापर्याप्ते भिक्षामटताम् अनुभ्भ्रामकाणां मौलग्रामे भिक्षापरिभ्रमणशीलानां स्वगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थं क्षपकस्तत्र गृहे निषन्नस्तिष्ठति । स च यो यः सङ्घाटकस्तत्रागच्छति तस्य तस्य कथयति अत्र पुरः कर्म कृतं वर्तते । अथ नास्ति क्षपकः पारणकं वा तस्य तद्दिने ततो यदर्थं पुरः कर्म कृतं स एव सङ्घाटकस्तत्र तिष्ठति ॥
[भा. १८४०] जइ एगस्स वि दोसा, अक्खर न उ ताइँ सव्वतो रिक्खा । जइ फुसण संकदोसा, हिंडता चेव साहंति ॥
वृ- अथ तयोरेकः प्रथम- द्वितीयपरीषहपीडितो न शक्नोति स्थातुम् ततः स प्रतिश्रयं व्रजति द्वितीयस्तु तत्रास्ते । अथैकस्य तस्य तिष्ठतः स्त्रीसमुत्थादयो दोषाः ततः कुड्यादिषु पुरः कर्मकरणसूचकान्यक्षराणि लिख्यन्ते । अथ 'न तु' नैव 'तानि' अक्षराणि सर्वेऽपि लिखितुं जानते ततः साधुजनसाङ्केतिकी रेखा करणीया । यदि तस्याः 'स्पर्शना' पादोघातेन मर्दना तदिषया आशङ्कादोषा भवेयुः, बहुवचननिर्देशादन्योऽपि रेखां करोतीत्याद्याशङ्क्रापरिग्रहः, ततस्तावेव साधू भिक्षामटन्तावपरेषां साधूनां कथयतः, तेऽपि हिण्डमाना एव परम्परया सर्वसाधूनां कथयन्ति । इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः ॥
उपसंहरन्नाह
[ भा. १८४१ ] एसा अविही भणिया, सत्तिहा खलु इमा विही होइ । तत्थाई चरिमदुए, अत्तट्ठियमाइ गीयरस ||
वृ- एषा अविधिपरिहरणा सप्तविधा भणिता । 'इयं तु' वक्ष्यमाणा विधिपरिहरणा भवति । सा चाष्टविधा । 'तत्र' अष्टानां भङ्गानां मध्याद् यदाद्यं पदं यच्च चरमम्-अन्तिमं प्रकारद्वयं तेषु त्रिषु भेदेषु आत्मार्थिते आदिशब्दात् सङ्क्रामिते च सति गीतार्थस्य ग्रहणं भवति । एतच्च यथास्थानं भावयिष्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org