________________
૪૪૨
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-लेपकृतं स्निग्धं वा भवेदस्निग्धं वा भवेत् । यदि स्निग्धं ततो गोबरेण-गोमयेन “पुटुं" प्रोञ्छितं सुघृष्टं पात्रकं कृत्वा निरक्यवीभूतं सत् प्रत्युपेक्ष्य रात्रौ स्थापयन्ति, न धारयन्तीति - भावः । अथास्निग्धं ततः संलेखनकल्पेन सुसंलीढं कृत्वा स्थ्यायते पुनः करीषेणघृष्यते । यदिच द्वितीये दिवसे द्रवं ग्रहीतव्यं ततः 'धावित्वा' त्रि कल्पयित्वा गृह्यते, अथ भक्तं ततोऽधौतेऽपि गृह्यते न कश्चिद् दोषः।। अत्र परः प्राह[भा.१७३५] जइ ओदनो अधोए, धिप्पइ तो अवयवेहि निसिभत्तं ।
तिनियन होंति कप्पा, ता धोवसु जाव निग्गंधं । [भा.१७३६] तम्हा गुब्बरपुटुं, संलीढंचेव धोविउं हिंडे।
इहरा मे निसिभत्तं, ओअविअंचेव गुरुमादी ।। वृ- यद्यधौते पात्रे द्वितीयेऽहनि ओदनो गृह्यते ततो ननु तत्र सूक्ष्मा अवयवाः सन्ति येषां गन्धस्तृतीयेऽप्यहनि लक्ष्यते, तैश्चावयवैस्तथास्थितैः सद्भिर्यदपरंभक्तं तत्रगृह्यते तद्भुनानानां निशिभक्तं भवति । यच्च यष्माभिर्लेपकृतस्य त्रयः कल्पाःशुद्धिकारणतया निर्दिष्टास्तदप्यस्माकं मनसिन रुचिपथियर्ति, कल्पत्रये दत्तेऽपितदीयगन्धस्याघ्रायमाणत्वात् । ततोऽहमित्थं प्ररूपयामि"ताधोवसुजाव निग्गंध"ति तावद्धाव' तावत्प्रक्षालययाव निर्गन्धीभवति; नच बहुभिरपि कल्पौर्निर्गन्धभवति तस्माद् यद् लेपकृतं स्निग्धं तद् गोबरेण-छगणेन प्रोञ्छितं कृत्वा अस्निग्धंतु सुसंलीढं कृत्वा द्वितीये दिवसे 'धावित्वा' कल्पयित्वा भिक्षां हिण्डेत; इतरथा' कल्पकरणमन्तरेण "भे" भवतां निसिभक्तमापद्यते, अकृतकल्पे च भाजने गृहीतमपरमपि भक्तम् “ओअवियं" उच्छिष्टं भवति, तच्च 'गुर्वादीनाम्' आचार्यापाध्यायप्रभृतीनां दीयमानं महतीमाशातनामुपजनयति ।इत्थं परेणोक्ते सति सति सूरिराह[भा.१७३७] भन्नइ न अन्नगंधा, हणंति छटुं जहेव उग्गारा ।
तिन्नि य कप्पा नियमा, जइ वि य गंधो जहा लोए । कृभण्यतेऽत्रप्रतिवचनम्-अन्नस्य-भक्तस्यगन्धाः षष्ठं रात्रिविरमणव्रतंनघ्नन्ति, यथैवोद्वारा रात्री समागच्छन्तोऽपि न षष्ठव्रतमुपघ्नन्ति । तथा पात्रके यद्यपि गन्धः समागच्छति तथापि नियमात् त्रय एव कलपा दातव्या नाधिका न वा हीनाः, तथा भगवद्भिरुक्तत्वात् । यथा लोकेऽपि प्रतिनियता भाजनशोधनाय मृत्तिकालेपा भवन्ति । तथाहि[भा.१७३८] वारिखलाणंबारस, मट्टिया छच्च वाणपत्थाणं ।
मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि। वृ. वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेषा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेषाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सजायन्ते । एवं लोकेऽपि स्वस्वसमयप्रतिपादितानि प्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक! एतावतः कल्पान् ‘मा भण' माहि, तावद्धौतव्यंयावनिर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः।तथा प्रतिमा' इति मोकप्रतिमा साऽपि प्रवचने भणिता, तस्यां हि मोकमपि पीत्वा साधुः शुचिरेव भवति ।। एतदेव भावयति[भा.१७३८] पिह सोयाइलोए, अम्हं पि अलेवगं अगंधं च |
मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org