________________
उद्देशक : १, मूलं- ६, [ भा. १६१२]
[ भा. १६१२] असनाइदव्वमाणे, दसपरिमिय एगभत्तमुव्वरइ । सो एगदिनं कप्पर, निच्चं तु अज्झोयरो इहरा ।।
वृ- अशनम् - ओदनमुद्गादिष आदिग्रहणात् पानक-खादिम-स्वादिमपरिग्रहः, एतेषां द्रव्याणां परिमितानामपरिमितानां वा मानं प्रमाणं ज्ञातव्यम् । यत्र परिमितमशनादि द्रव्यं प्रविशति तत्र दशानां मानुषाणां हेतोरुपस्क्रियमाणे एकस्य - अपरस्य योग्यं भक्तं भक्तार्थमुद्वरति, स च भक्तार्थ एकस्य साधोः परिपूर्णाहारमात्रारूपं एकं दिनं ग्रहीतुं कल्पते । 'इतरथा' यदि द्वितीयादिषु दिवसेषु गृह्णन्ति तदा "निचं तु" तिस साधुभि प्रतिदिवसगृह्यमाणो भक्तार्थो नित्यजेमनमेव तैः श्राद्धैर्गण्यते, ततश्च तदर्थमध्यवपूरकः प्रक्षिप्येत ॥ एवं तात् परिमितमाश्रित्योक्तम् ।
अथापरिमितमधिकृत्याह
४०९
[ भा. १६१३] अपरिमिए आरेण वि, दसण्हमुव्वरइ एगभत्तट्ठो । वंजण-समिइम- पिट्ठे- वेसणमाईसु य तहेव ॥
वृ-यत्र पुनरपरिमितं राध्यते तत्र दशानां मानुषाणाम् 'अर्वागपि' नवाष्टादिसङ्ख्याकानामपि तो राद्धे एकस्य योग्यो भक्तार्थ उद्धरति, स च दिने दिने कल्पत इति । आह च चूर्णिकृत् अपरिमिए पुन भत्ते दसह आरेण वि एगस्स भत्तट्ठो दिणे दिणे कप्पइ चेव । तथा व्यञ्जनानितीमन - वटिका-भर्जिकादीनि, “समितिम" त्ति समिता- कणिक्का तया निष्पन्नाः समितिमाःमण्डकाः पूपलिका वा, पिष्टम्-उण्डेरकादि सक्तुप्रभृति वा, वेसणं-मरिच-जीरक- हिडुप्रभृतिकं कटुभाण्डम्, आदिग्रहणाद् लवण-शुण्ठयादिपरिग्रहः । एतेषामपि परिमाणं तथैव द्रष्टव्यं यथाऽशनादीनाम्॥ एतावता " द्रव्यप्रमाणं गणना- क्षारित स्फोटितानि” इति गायादलं भावितम् । अथ " अद्धा य" त्ति पदं व्याचष्टे
[भा. १६१४] सतिकालद्धं नाउं, कुले कुले ताहि तत्थ पविसंति । ओसक्कणाइदोसा, अलंभे वालाइहानी वा ॥
वृ- सत्कालाद्धा-भिक्षायाः सम्बन्धी यो यत्र देशकालरूपोऽद्धा तं ज्ञात्वा कुले कुले तस्मिन् देशकाले तत्र प्रविशन्ति । अथ देशकालेऽतिक्रान्तेऽप्राप्ते वा प्रविशन्ति ततोऽवष्वष्कणादयो दोषाः । अथावप्यष्कमादिकं तानि श्राद्धकान्यशुद्धदानदोषश्रवणव्युत्पन्नमतीनि न कुर्यु ततः प्रायोग्यद्रव्यस्यालाभे बालादीनां हानिर्भवेदिति ॥ एवं यत्र क्षेत्रे एक एव गच्छो भवेत् तत्र स्थापनाकुलप्रवेशे सामाचारी भणिता । अथानेकगच्छविषयां तामेवाभिधित्सुराह
[भा. १६१५] एगो व होज्ज गच्छो, दोन्निव तिन्नि व ठवणा असंविग्गे । सोही गिलाणमाई, असई य दवाई एमेव ॥
- विवक्षितक्षेत्रे एको वा गच्छो भवेद् द्वौ वा त्रयो वा तत्रैकं गच्छमाश्रित्य विधिरुक्तः । अथ व्याद्यादीन् गच्छानधिकृत्य विधिरभिधीयते- “ठवणा असंविग्गे "त्तियेषु असंविग्नाः प्रविशन्ति तेषां श्राद्धकुलानां स्थापना कर्त्तव्या न तेषु प्रवेष्टवयम् । अथ प्रविशन्ति ततः पञ्चदशोद्गमदोषानापदयन्ते, “सोहि 'त्ति तद्दोषनिष्पन्न 'शोधि' प्रायश्चित्तम् । यद्वा "सोहि ” त्ति पदं "गिलाणमाई " इत्युत्तरपदेन सह योज्यते, ततोऽयमर्थ- ग्लान- प्राधूर्णकादीनामर्थायासंविग्नभावितेष्वपि कुलेषु 'शोधि' एषणाशुद्धि तया शुद्धं भक्तं गृह्यते न कश्चिद् दोषः । “असई इ दवाइ एमेव "त्ति अन्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org