________________
उद्देशक : : १, मूलं - ६, (भा. १५१६]
३८७
प्रद्विष्टाः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिहाणिस्तनिष्पन्नमपि प्रायश्चित्तम् । तस्मान्न वक्तव्यं 'नेष्यामः' इति ॥ किं पुनस्तर्हि वक्तव्यम् ? उच्यते
[भा. १५१७] जह अम्हे तह अन्ने, गुरु-जेट्टमहाजनस्स अम्हे मो । पुव्वभणिया उ दोसा, परिहरिया कुडुमाईया ||
वृ- यथा वयमत्रागतास्तथा अन्येऽपि साधवस्तिसृषु दिक्षु गताः सन्ति ततो न जानीमः की शं क्षेत्रं तैः प्रत्युपेक्षितमस्ति ? । अस्माकं तावदिदं क्षेत्रमभिरुचितम्, परं गुरवश्च - आचार्या ज्येष्ठमहाजनश्च-ज्येष्ठार्साधुसमुदायो गुरु-ज्येष्ठमहाजनं तस्य वयम् 'मो' इति पादपूरणे परतन्त्रावर्त्तामहे इतिवाक्यशेषः । ततस्तत्र गतानां गुरूणां ज्येष्ठार्याणां वा यद् विचारे समेष्यति तद् विधास्यामः । एवंब्रुवाणैः 'पूर्वभणिताः' कुड्यकरणादयो दोषाः परिहृताः ॥ इत्थमुक्त्वा सागारिकमापृच्छय ते किं कुर्वन्ति ? इत्याह
[ भा. १५१८] जइ पंच तिनि चत्तारि छसु सत्तसु य पंच अच्छंति । चोयगपुच्छा सज्झायकरण वच्चंत -अच्छंते ॥
वृ- यदि ते पञ्च जनास्ततस्त्रयस्तत्रैवासते द्वौ गुरुसकासं गच्छतः । अथ षड् जनास्ततश्चत्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यर्णे व्रजतः । अथ सप्त जनाः ततः पञ्च तत्रैवासते द्वी गुरूणामुपकण्ठे गच्छतः । यदि च ऋजुः पन्थाः सव्याघातस्ततोऽपरं पन्थानं प्रत्युपेक्षन्ते । नोदकः पृच्छति ये ते गुरुसकाशं व्रजन्ति ये च ते उपाश्रये आसते ते उभयेऽपि किं स्वाध्यायं कुर्वते वा न वा ? ॥। उच्यते
[भा. १५१९] वच्छंतकरण अच्चंत अकरणे लहुओ मासो गुरुओ उ । जावइकालं गुरुणो, न इति सव्वं अकरणाए ।
वृ-ये ताव् व्रजन्ति ते यदि सूत्रपौरुषीं कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्ति मासगुरु । ये तूपाश्रये तिष्ठन्ति तेषां सूत्रपौरुष्या अकरणे लघुको मासः, अर्थपौरुष्या अकरणे गरुको मासः । यावत्कालं गुरूणां समीपे 'नायान्ति' न प्राप्नुवन्ति तावत् "सव्वं अकरणाए "त्ति सर्व मपि सूत्रमर्थं च न कुर्वन्ति । इदमेव सविशेषमाह
[भा. १५२०] जइ वि अनंतर खेत्तं, गयाओ तह वि अगुनंतगा एंति । निययाई मा गच्छे, इतरत्थ य सिजवाधाओ ।।
वृ- यद्यपि 'अनन्तरम्' अव्यवहितमेव क्षेत्रं गतास्तथापि 'अगुणयन्तः' सूत्रार्थावकुर्वन्त आयान्ति । कुतः ? इत्याह-नित्यवासादयो दोषा गच्छस्य मा भूवन्, 'इतरत्र च ' प्रत्युपेक्षिते तेर चिरकालं विलम्ब्यागच्छतां शय्यायाः - उपाश्रयस्य व्याघातो मा भूत् ॥ यतएवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्ति[ भा. १५२१]
पत्त गुरुसगासं, आलोएंती जहक्क मं सव्वे । चिंता वीमंसा या, आयरियाणं समुप्पन्ना ॥
वृ- 'ते' क्षेत्रप्रत्युपेक्षकाः प्राप्ताः सन्तो गुरुसकाशमालोचयन्ति यथाक्रमं सर्वेऽपि क्षेत्रस्वरूपम्। ततस्तेषामालोचनां श्रुत्वा 'चिन्ता' 'कस्यां दिशि व्रजामः ? ' इत्येवंलक्षणा 'मीमांसा च ' शिष्याभिप्रायविचारणा आचार्याणां समुत्पन्ना ॥ अथैनामेव गाथां भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org