________________
३७२
बृहत्कल्प-छेदसूत्रम् -१-१/६ होति जहन्ना एए, सयग्गसो चेव उच्छोसा॥ वृ-प्रतिपद्यमानका एते जघन्या एकादयो वा भवेयुनप्रक्षेपे सति, यदा ग्लानत्वादिवशतो गच्छस्य स्वसाधुसमर्पणादिना तेषां न्यूनता भवति तदैकादयः साधवस्तत्र प्रवेश्यन्ते येन पञ्चको गच्छः पूर्यत इत्यर्थः। तथा 'शताग्रशः' शतसङ्ख्याः पुरुषा न्यूनप्रक्षेपे उत्कर्षतः प्रतिपद्यमानका भवन्ति । पूर्वप्रतिपन्नानां मानमाह[भा.१४४५] पुब्बपडिवनगाण वि, उक्कोस-जहन्नसो परीमाणं ।
कोडिपुहुत्तं भणियं, होइ अहालंदियाणं तु ॥ वृ-पूर्वप्रतिपन्नानामप्युत्कर्षतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं यथालन्दिकानां भवति, महाविदेहपञ्चके जघन्यपदवर्तिनः कर्मभूमिपञ्चदशके चोत्कर्षपदवर्तिनः कोटिपृथक्त्वस्यामीषां प्राप्यमाणत्वात् । भणितमेतद् भगवद्भिरिति । गतो यथालन्दकल्पविहारः । अथ गच्छवासिनां मासकल्पविधिमभिधित्सुः प्रस्तावनार्थं प्राक्तनीमेव मूलद्वारगाथामाह[भा.१४४६] पव्वजा सिक्खापय, अत्थग्गहणंच अनियओ वासो।
निष्फत्ती य विहारो, सामायारी ठिई चेव ।। वृ-अत्र प्रव्रज्यादीनि पञ्च द्वाराणि यथा जिनकल्पद्वारे तथाऽत्रापि मन्तव्यानि ॥ अथ विहारद्वारविषयं विधिमभिधित्सुराह[भा.१४४७] निष्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा ।
आयरिय उवज्झाया, भिक्खू थेराय खुड्डा य।। वृशिष्याणां निष्पत्तिं कुर्वन्तः स्थविराः' गच्छवासिनः साधवः 'विहरन्ति' अप्रतिबद्ध विहारं विदधति । तेषां चेत्थं विहरतामियं 'मर्यादा' सामाचारी। तत्र गच्छवासिनस्तावत् पञ्चविधाः, तद्यथा-आचार्या उपाध्याया भिक्षवः स्थविराः क्षुल्लकाश्चेति॥ - [भा.१४४८] धीरपुरिसपन्नत्तो, सप्पुरिसनिसेविओ अमासविही ।
तस्स पडिलेहगा पुण, सुत्तत्थविसारगा भणिया ।। वृ-धीरपुरुषैः-तीर्थकर-गणधरैः प्रज्ञप्तः, सत्पुरुषैश्च-ज्बू-प्रभवादिभिर्निषेवितः-अनुष्ठितो मासकल्पविधिः । तस्य पुनः' मासकल्पविधेः प्रत्युपेक्षकाः सूत्रार्तविशारदाः साधवो भणिता भगवद्भिः । स पुनर्विहारः शरदादिर्भवति ।। कथम् ? इति चेद् उच्यते[भा.१४४९] वासावासातीए, अट्ठसुचारो अतो उ सरदाई।
पडिलेह-संकमविही, ठिए अमेरंपरिकहेहं ।। वृ-वर्षावासेऽतीते-अतिक्रान्ते अष्टसु' ऋतुबद्धमासेषु चारः' मासेमासे क्षेत्रान्तरगमनलक्षणो विहारो भवति, अतः शरदादिरयं मन्तव्यः । तत्रच क्षेत्रप्रत्युपेक्षणविधि क्षेत्रान्तरसङ्क्रमणविधि प्रत्युपेक्षिते च क्षेत्रे “ठिए"त्ति स्थिताना सतां या काचिद् मर्यादा तामहं परिकथयिष्यामि ।। प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराह[भा.१४५०] निग्गमणम्मि उ पुच्छा, पत्तमपत्ते अइच्छिए वा वि।
वाघायम्मि अपत्ते, अइच्छिए तस्स असतीए॥ वृ-यत्र वर्षावासः कृतस्ततः क्षेत्रानिर्गमने 'पृच्छा' किं कार्तिकचतुर्मासे प्राप्ते निर्गन्तव्यम्?
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org