SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० बृहत्कल्प-छेदसूत्रम् - १-१/६ प्राप्यते तदा 'गणतः ' गणप्रमाणमाश्रित्य त्रय एव गणा जघन्यतः प्रतिपत्तिमङ्गीकृत्य ज्ञातव्याः । उत्कर्षतः 'शतशः ' शतपृथक्त्वसङ्ख्याका गणा अमुकल्पं युगपत् प्रतिपद्यन्ते । ये तु पूर्वप्रतिपन्नास्ते उत्कर्षतो जघन्यतश्च शतश एव' शतपृथक्त्वसङ्ख्याका एव । नवरं जघन्यपदादुत्कृष्टपदमधिकतरम् ॥ [ भा. १४३६ ] सत्तावीस जहन्ना, सहस्स उक्कोसतो उ पडिवत्ती । सयसो सहस्ससो वा, पडिवन्ना जहन्न उक्कोसा || कृ-विंशति पुरुषा जघन्यतोऽस्य कल्पस्य प्रतिपत्तिं कुर्वन्ति, त्रिषुनवकगणेषु, सप्ताविंशतेर्जनानां भावात् । उत्कर्षतः सहपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः ‘शतशः' शतपृथक्त्वम्, उत्कर्षतः 'सहशः ' सहपृथक्त्वम् ।। पुरुषप्रमाणत एव विशेषमाह [भा. १४३७ ] पडिवज्रमाण भइया, इक्को वि उ होज्ज ऊनपक्खेवे । पुव्व पडिवन्नया विउ, भइया इक्को पुहुत्तं वा ॥ वृ-प्रतिपद्यमानकाः पुरुषाः 'भक्ताः' विकल्पिताः । कथम् ? इत्याह-एकोऽपि भवेदूनप्रक्षेपे, अपिशब्दाद् व्यादयोऽपि । इदमुक्तं भवति-पूर्णायामष्टादशमास्यां यदि केचित् परिहारिकाः कालगता जिनकल्पं वा प्रतिपन्ना गच्छं वा प्रत्यागताः, ये शेषास्ते तमेव परिहारकल्पमनुपालयितुकामाः, ततो यावद्भि प्रविष्टैर्नवको गणः पूर्यते तावन्तोऽपेर प्रवेशनीया इति कृत्वा प्रतिपद्यमानका एक व्यादिसङ्कयाका अपि भवेयुः । पूर्वप्रतिपन्नका अपि भाज्याः । कथम् ? इत्याह-एको वा भवेत् पृथक्त्वं वा । इयमत्र भावना-यदि पूर्णेष्वथदशसु मासेष्वष्टौ परिहारविशुद्धिकाः कल्पान्तरं प्रतिपद्यन्ते तत एकः पूर्वप्रतिपन्नः; यदा तु केचित् कल्पान्तरं प्रतिपद्यन्ते केचितु दुव्यादिसङ्ख्याकास्तमेव कल्पमनुपालन्यित तदा पृथक्त्वं पूर्वप्रतिपन्नकानां भवतीति ॥ गतं गणनाद्वारम् । शेषद्वाराणि तु सर्वाण्यपि जिनकल्पतुल्यवक्तव्यान्येवेत्युक्तं शुद्धपरिहारनानात्वम् । सम्प्रति यथालन्दकल्पनानात्वमाह [भा. १४३८ ] लंदो उ होइ कालो, उक्कोसगलंदचारिणो जम्हा । तं चिय मज्झ पमाणं, गणाण उक्कोस पुरिसाणं !! दृ- लन्दस्तु भवति कालः, लन्दशब्देन काल उच्यते इत्यर्थः । स पुनस्त्रिधा जघन्य उत्कृष्टो मध्यमश्च । यावता कालेनोदकाद्रः करः शुष्यति तावान् जघन्यः, उत्कृष्टः पञ्च रात्रिन्दिवानि, जघन्यादूर्द्धवमुत्कृष्टादर्वाक् सर्वोऽपि मध्यमः । इह चोत्कृष्टलन्देनाधिकारः । तथा चाह‘उत्कृष्टलन्दचारिणः' उत्कृष्ट लन्दं पञ्चरात्ररूपमेकसयां वीथ्यां चरणशीला यस्मात्, ततोऽमी ‘उत्कृष्टलन्दानतिक्रमो यथालन्दम्, तदस्त्येषाम्' इति व्युत्पत्त्या यथालन्दिका उच्यन्ते । 'तदेव च' लन्दमानं 'मध्यमं' त्रिकलक्षणममीषां गणप्रमाणम्, त्रयो गणा अमुं कल्पं प्रतिपद्यन्त इत्यर्थः । 'तदेव च ' लन्दमानमुत्कृष्टं पञ्चकात्मकमेकैकस्य गणस्य पुरुषाणां प्रमाणं द्रष्टव्यम्, एकैकस्मिन् गणे पञ्च पञ्च पुरुषा भवन्तीति भावः ॥ [भा. १४३९] जच्चैव य जिनकप्पे, मेरा सा चैव लंदियाणं पि । नातं पुण सुत्ते, भिक्खायरि मासकप्पे य ॥ वृ-यैव च जिनकल्पे 'मर्यादा' सामाचारी भणिता तुलनादिका सैव यथालन्दिकानामपि मन्तव्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy