________________
३६२
बृहत्कल्प-छेदसूत्रम् - १-१/६
ग्रहणं करोति २२ । अत्र शिष्यः पृच्छति - "लेवालेवे" त्ति किमसौ जिनकल्पिको लेपकृतं गृहणं गृह्णाति ? उतालेपकृतम् ? २३ । अत्र सूरि- "अलेवे" त्ति पदं विवृण्वन्नुत्तरमाह- 'द्वे अपि' भक्त पाने 'अलेपकृते' वल्ल चणक- सौवीरादिरूपे गृह्णाति न लेपकृते २४ ॥
आयामाम्ल - प्रतिमाद्वारद्वयमाह
[भा. १३९८ ] आयंबिलं न गिण्हइ, जं च अणायंबिलं पिलेवाडं । न य पडिमा पडिवज्जइ, मासाई जा य सेसाओ ॥
वृ- आयामाग्लमसौ न गृह्णाति, पुरीषभेदादिदोषमभ्भवात्; अनायामाम्लमपि यद् लेपकृतं तन्न गृह्णाति २५ । न च प्रतिमा मासिक्यादिका असौ प्रतिपद्यते । याश्रच 'शेषाः भद्र-महाभद्रादिकाः प्रतिमास्ता अपि न प्रतिपद्यते, स्वकल्पस्थितिप्रतिपालनमेव तस्य विशेषाभिग्रह इति भावः २६ ।। अथ मासकल्प इति द्वारमभिधित्सुराह
[भा. १३९९ ] कप्पे सुत्त ऽत्यविसारयस्स संघयण - विरियजुत्तस्य । जिनकप्पियरस कप्पर, अभिगहिया एसणा निच्चं ॥
वृ- कल्पे जिनकल्पविषयौ यौ सूत्रार्थी तत्र विशारदस्य निपुणस्य संहननं - शारीरबलं वीर्यधृतिस्ताभ्यां युक्तस्य जिनकल्पिकस्य कल्पते 'अभिगृहीता' साभिग्रहा एषणा ।। सा च मासकल्पस्थितिमनुपालयतो भवतीत्यतस्तस्यैव विधिमाहछव्वीहीओ गामं, काउं एक्चिक्कियं तु सो अडइ । वज्जेउं होइ सुहं, अनिययवित्तिस्स कम्भाई ॥
[ भा. १४०० ]
वृ-यत्रासौ मासकल्पं करोति तं ग्रामं 'षड् वीथीः' गृहपङ्क्तिरूपाः कृत्वा ततः प्रतिदिनमेकैकां वीथीमति यावत् षष्ठे दिवसे षष्ठीम् । कुतः ? इत्याह-अनियतवृत्तेरपरापरवीथीषु पर्यटतः 'कर्मादि' आधाकर्म- पूतिकर्मादिकं 'सुखं वर्जयितुं भवति' सुखेनैव परिहर्तुं शक्यत इति भावः ॥ कथं पुनराधाकर्मादिसम्भवो भवति ? इत्याशङ्कय तत्सम्भवं दिदर्शयिषुराहअभिग्ग द करणं, भत्तोगाहिमग तिन्नि पूईयं । चोदग! एगमनेगे, कप्पो त्ति य सत्तमे सत्तमे सत्त ॥
[भा. १४०१]
दृ-तस्य भगवतः प्रथमवीथीमटतः कयाचिदगार्या श्रद्धातिरेकाद् धृत-मधुसंयुक्तं भैक्षमुपनीतम्, तेन च 'न कल्पते मे लेपकृता भिक्षा' इति न गृहीतम्, तत एवमादीनभिग्रहान् दृष्ट्वा आधाकर्मणः करणं भवति । तञ्च भक्तभवगाहिमं वा भवेत् । त्रीणि च दिवसानि तत् पूतिकम् । नोदकः प्रश्रनयति एवं ग्रामं किमनेकान् भागान् षड्वीथीरूपान् करोति ? । सूरिराह-कल्प एषोऽमीषां यत् षड् वीथीः कृत्वा सप्तमे दिवसे पर्यटन्ति, सप्त च जना एकस्यां वसतौ सम्भवन्तीति समासार्थः ।। अथ विस्तरार्थमाह
[भा. १४०२]
दणय अनगारं, सड्डी संवेगमागया काइ ।
नत्थि महं तारिसयं, अन्नं जमलज्जिया दाहं ॥
वृ- तमनगारं तपः शोषितमलपटलजटिलवपुषं दृष्ट्वा काचित् श्राद्धिका परमसंवेगमागता सती चिन्तयति किं मे जीवितेन यद् ईद्दशस्य महात्मनो भिक्षा न दीयते ?, नास्ति मम ताध्शं शोभनमन्त्रं यद् अहमलज्जिता सती दास्यामि ॥ ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org