________________
३६०
बृहत्कल्प-छेदसूत्रम् -१-१/६ निर्वाहक्षममनःप्रणिधानरूपया वज्रकुड्यसमानाः २ । अथोपसर्गद्वारम्-उत्पद्यन्ते न वा अभीषामुपसर्गा दिव्यादयः ? इत्येषा पृच्छा ।। अनोत्तरमाह[भा.१३८७] जइ विय उप्पजंते, सम्मं विसहति ते उ उवसग्गे।
रोगातंका चेवं, भइआ जइ होति विसहति ॥ वृ-नायमेकान्तो यदवश्यमेतेषामुपसर्गा उत्पद्यान्ते, परं यद्युतपद्यन्त तथापि सम्यगदीनमनसो विषहन्तेतानुपसर्गान् ३आतङ्कद्वारमतिदिशति-रोगाश्रच-कालसहाः आतङ्काश्रच-सद्योघातिनः एवमेव 'भाज्याः' उत्पद्यन्ते वा न वा । यदि ‘भवन्ति उत्पद्यन्ते ततो नियमाद् विषहन्ते ४॥
वेदनाद्वारमाह[भा.१३८८] अब्मोवगमा ओवक्कमा य तेसि वियणा भवे दुविहा ।
धुवलोआई पढमा, जरा-विवागाइ बिइएको । वृ-आभ्युपगमिकी औपक्तमिक्की च 'तेषां ' जिनकल्पिकानां द्विविधा वेदना भवति । तत्र प्रथमा ध्रुवलोचादि' ध्रुवः-प्रतिदिनभावी लोचः,आदिशब्दादातापना-तपःप्रभृतिपरिग्रहः । 'द्वितीया तु' औपक्तमिकी 'जरा-विपाकादि' जर-प्रतीता विपाकः- कर्मणामुदयस्तत्समुत्था ५ । अथ कियन्तो जनाः ? इति द्वारम् - "एक्लो" ति एक एवायं भगवान् भवति ६ । यदि वा ईदं द्वारमुपरिष्टा व्याख्यास्यते॥अथ स्थण्डिलद्वारमाह[मा.१३८९] उच्चारे पासवणे, उस्सग्गं कुणइथंडिले पढमे ।
तत्येव य परिजुन्ने, कयकिञ्चो उज्झई वत्थे । वृ-उच्चारस्य प्रश्रवणस्य च ‘उत्सर्ग' परित्यागं 'प्रथम' अनापाते असंलोके स्थण्डिले करोति। 'तत्रैव' प्रथमस्थण्डिले 'कृतकार्य' विहितशीतत्राणादिवस्त्रकार्य उज्झति वस्त्राणि॥
अयं च संज्ञां व्युत्सृज्य न निर्लेपयति, कुतः? इति चेद् उच्यते[भा.१३९०] अप्पसभित्रं वच्चं, अपं लूहं च भोयणं भणियं ।
दीहे विउ उवसग्गे, उभयभवि अथंडिले न करे ।। वृ-अल्पमभिन्नं च 'वर्च' पुरीषमस्य भवति, कुतः? इत्याह-यतोऽल्पं रूक्षं च भोजनमस्य भणितं भगवद्भिः । अल्पा-ऽभिन्नवर्चस्कतया तथाकल्पत्वाचासौ न निर्लेपयति । न चासौ 'दीर्धेऽपि बहुदैवसिके उपसर्गे 'उभयमपि' संज्ञांकायिकींच 'अस्थण्डिले' आपातादिदोषयुक्ते भूभागे करोति ७॥ वसतिद्वारमाह[भा.१३९१] अममत्त अपरिकम्मा, नियमा जिनकप्पियाण वसहीओ।
एमेव यथेराणं, मुत्तुण पमज्जणं एक्कं ॥ वृ-'अममत्वा' ममेयिमत्यभिष्वङगरहिता 'अपरिकर्मा' साध्वर्थमुपलेपनादिपरिकर्मवर्जिता नियमाद् जिनकल्पिकानां वसति । स्थविरकल्पिकानामप्येवमेव वसतिरममत्वा अपरिकर्मा च द्रष्टव्या, मुक्त्वा प्रमार्जनामेकामन्यत् परिकर्म तेऽपि न कुर्वन्तीत्यर्थः ॥ एतदेव स्पष्टयति[मा.१३९२] विले ने ढक्कंतिन खजमाणिं, गोणाई वारिति न भजमाणिं ।
दारे न ढक्कंति न वऽग्गलिंति, दप्पेण थेरा भइआ उ कज्जे ॥ दृ-एते भगवन्तो बिलानि धूल्यादिना न स्थगयन्ति, न वा गवादिभि खाद्यमानां भज्यमानां
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only