SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १३३४] ३५१ प्रहरेषु ‘सुप्तव्य' शयनम्, कारणाभावे तु यत् तृतीयाहरे सुप्तव्यं तत् सर्वमपि स्तोकं स्तोकं जयति शनैः शनैरित्यर्थः, 'भयं च मूषिकादिजनितं यद् 'यत्र' उपाश्रयादिषु सम्भवति तत् तत्र जयति ।। अत्रच सत्त्वभावनायां पञ्च प्रतिमा भवन्ति । ता एवाह[भा.१३३५] पढमा उवस्सयम्मी, विइया बाहि तइया चउक्कम्मि। सुत्रधरम्मि चउत्थी, तह पंचमिया सुसाणम्मि ।। वृ-प्रथमा प्रतिमा उपाश्रये १ द्वितीया उपाश्रयान बहि २ तृतीया 'चतुष्के' चत्वरे ३ चतुर्थी शून्यगृहे ४ पञ्चमी श्मशाने ५।। तत्र प्रथमां तावदाह[भा.१३३६] भोगजढे गंभीरे, उव्वरए कोट्ठए अलिंद वा। तनुसाइजागरोवा, झाणट्टाए भयं जिणइ ॥ “भोगजढे" अपरिभोग्ये गम्भीरे' सान्धकारेउपाश्रयसत्केऽपवरकेवा कोष्ठकेवा अलिन्दके वा 'तनुशायी' स्तोकनिद्रावान् ‘जाग्रद् वा' निद्रामकुर्वन् 'ध्यानार्थं' शुभाध्यवसायस्थैर्यहतोः प्रसुप्तेषु शेषसाधुषु कायोत्सर्गस्थितो भयं जयति ।। कथम्? इत्याह[भा.१३३७] छिक्कस्स व खइयस्स व, मूसिगमाईहि वा निसिचरेहि। जह सहसा न वि जायइ, रोमंचुडभेय चाडो वा॥ वृ- स्पृष्टस्य वा खादितस्य वा मूषकैः आदिग्रहणाद् मार्जारादिभिः 'निशाचरैः' रात्रिपरिभ्रमणशीलैः यथा सहसा नापि जायते 'रोमाञ्चोझेदः' भयोद्रेकजिनितो रोमोद्धर्ष 'चाडो' वा पलायनं तथा सत्त्वभावनयाऽऽत्मा भावयितव्यः॥ उक्ता प्रथमा प्रतिमा | अथ द्वितीयादिकाश्चतोऽप्यतिदिशत्राह[भा.१३३८] सविसेसतरा बाहिं, तक्कर-आरक्खि-सावयाईया। सुन्नघर-सुसाणेसु य, सविसेसतरा भवे तिविहा।। वृ-यान्युपाश्रयप्रतिमायां भयान्युक्तानि तान्युपाश्रयाद् बहि प्रतिमायां सविशेषतराणि तस्कराऽऽरक्षिक-श्वापदादिभयसहितानि मन्तव्यानि । शून्यगृह-श्मशानयोः चशब्दात् चतुष्के च सविशेषतराणि 'त्रिविधानि दिव्य-मानुष्य-तैरश्चोपसर्गरूपाणि भयानि भवन्ति, तान्यपि सम्यग्जयतीति प्रक्रमः ॥ अस्या एव भावनायाः फलमाह[भा.१३३९] देवेहि भेसिओविय, दिया व रातो व भीमरूवेहिं । तो सत्तभावना, वहइ भरं निभओ सयलं ॥ वृ-तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा वा रात्रौ वा भीमरूपैर्देर्भेषितोऽपि 'भरं' जिनकल्पभारं सकलमपि निर्भयः सन् वहतीति ।गता सत्त्वभावना । अथ सूत्रभावनामाह[भा.१३४०]जइ वि य सनाममिव परिचियं सुअं अणहिय-अहीणवन्नाई। कालपरिमाणहेउं, तहा वि खलु तज्जयं कुणइ ।। वृ-यद्यपि स्वनामेव तस्य श्रुतं परिचितम् 'अनधिका-ऽहीनवर्णादि' अनत्यक्षरं अहीनाक्षरम् आदिशब्दाद् अवायविद्धाक्षरादिगुणोपेतंचतथापिकालपरिमाणहेतो. 'तज्जयं श्रुताभ्यासंकरोति।। कथम् ? इति चेद् उच्यते[भा.१३४१] उस्सासाओ पाणू, तओ य थोवो तओ विय मुहुत्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy