________________
३५०
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-यद् येन पौरुष्यादिकं तपः ‘अनभ्यस्तं' सात्मीभावमनानीतं तत् 'त्रिगुणं' त्रीन् वारान् करोति । यथा-प्रथमं पौरुषी वारत्रयासेवनेन सात्मीभावमानीय ततः पूर्वार्द्ध तथैवासेव्य सात्मीभावमानयति; एवं निर्विकृतिकादिष्वपि द्रष्टव्यम् । किमर्थम् ? इत्याह-शुद्विजयार्थम्, यथाक्षुत्परीषहसहने सास्यं भवतीत्यर्थः । अत्रच गिरिनदीसिंहेन दृष्टान्तः-यथाऽसौपूर्णागिरिनदी तरन् परतटे चिह्नं करोति, यथा-अमुकप्रदेशे वृक्षाधुपलक्षिते मया गन्तव्यमिति, स च तरन् तीक्ष्मेनोदकवेगेनापह्रियतेततो व्यावृत्य भूयः प्रगुणमेवोत्तरति, यदिहियतेततोभूयस्तथैवोत्तरति, एवं यावत् सकलामपि गिरिनदी प्रगुणमेवोत्तरीतुं न शक्नोति तावत् तदुत्तरणाभ्यासं न मुञ्चति। एवमयमपि यावद् विवक्षितं तपः सात्मीभावं न याति तावत् तदभ्यासं न मुञ्चति । एतदेवाह[भा.१३३०] एकेक्वं ताव तवं, करेइजह तेन कीरमाणेणं।
हानी न होइ जइआ, वि होज छम्मासुवस्सग्गो॥ वृ- एकैकं तपस्तावत् करोति यथा 'तेन' तपसा क्रियमाणेनापि विहितानुष्ठानस्य हानिर्न भवति । यदाऽपि कथञ्चिद् भवेत् षण्मासान यावद् 'उपसर्गः' देवादिकृतोऽनेषणीयकरणादिरूपस्तदाऽपि षण्मासान् यावदुषितआस्तेन पुनरनेषणीयमाहारंगृह्णाति ॥ तपस एव गुणान्तरमाह[भा.१३३१] अप्पाहारस्स न इंदियाइँ विसएसु संपवत्तंति।
नेव किलम्मइ तवसा, रसिएसु न सज्जए यावि।। वृ-तपसा क्रियमाणेनाल्पाहारस्य सतो नेन्द्रियाणि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, न च 'क्लाम्यति' बाधामनुभवति तपसा, नैवच रसिकेषु' स्निग्ध-मधरेष्वशनादिषु सजति' सॉकरोति, तेषु परिभोगाभावेनादराभावात् ।। अपि च[भा.१३३२] तवभावणाइ पंचिंदियाणि दंताणि जस्स वसमिति।
इंदियजोग्गा(गा)यरिओ, समाहिकरणाइँ कारयए॥ वृ-तपोभावनया हेतुभूतया ‘पञ्च' इति पञ्चसङ्ख्याकानीन्द्रियाणिदान्तानि सन्ति यस्य वशम्' आयत्ततामागच्छन्ति सः इन्द्रिययोग्या(गा)चार्य' इन्द्रियप्रगुणनक्रियागुरु 'समाधिकरणानि' समाधिव्यापारान् काश्यति इन्द्रियाणि, यथा यथा ज्ञानादिषु समाधिरुत्पद्यते तथा तथा तानि कारयतीत्यर्थः ।। उक्ता तपोभावना । अथ सत्त्वभावनामाह[भा.१३३३]जे वि य पुब्बि निसि निग्गमेसु विसहिंसु विसहिंसु साहस-भयाई।
अहि-तक्कर-गोवाई, विसिंसुघोरे य संगामे॥ वृ-येऽपिच राजप्रव्रजितादयः पूर्वं गृहवासे 'निशि' रात्री वीरचर्यादिना निर्गमेषुसाध्वसम्अहतुकभयरूपं भयं-सहेतुकं ते अहि-तस्कर-गोपादिसम्बन्धिनी 'व्यषहन्' विषोढवन्तः, घोरे च सङ्ग्रामे सात्त्विकतया “विसिंसु"त्ति प्राविशन्तेऽपिजिनकल्पंप्रतिपित्सवः सत्त्वभावनामवश्यं भावयन्ति ।। कथम् ? इति चेद् उच्यते[भा.१३३४] पासुत्ताण तुयटुं, सोयव्वंजं च तीसु जामेसु।
थोवं थोवं जिणइ उ, भयं च ज संभवइ जत्थ ।। वृ- यत् स्थविरकल्पिकानां पार्श्वत उत्तानकं वा तुवरवर्तनम्, यच्च कारणे त्रिषु 'यामेषु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org