________________
उद्देशक : १, मूलं-६, [भा. १३०४] मेकान्तरितेउत्पादे 'द्वयोरपि केवलज्ञान-दर्शनयोरन्योन्यावरणताभवेत्, ज्ञानावरण-दर्शनावरणयोः समूलकाषं कषितत्वाद् अपरस्य चाऽऽवारकस्याऽभावात् परस्परावारकतैवानयोःप्राप्नोतीति भावः । अथ युगपदिति द्वितीयः पक्षः कक्षीक्रियते सोऽपि नक्षोदक्षमः, कुतः? इत्याह-'एककाल' युगपद् उपयोगद्वयेऽङ्गीक्रियमाणे वाशब्दः पक्षान्तरद्योतनार्थ 'द्वयोरपि' साकारा-ऽनाकारोपयोगयोरेकत्वं प्राप्नोति, तुल्यकालभावित्वादिति ।अत्रोत्तरम्-इह तथाजीवस्वाभाव्यादेवसर्वस्यापि केवलिन एकस्मिन् समये एकतर एवोपयोगो भवति न द्वौ, “सव्वस्स केवलिस्सा, जुगवं दो नतथि उवओगा" इति वचनात् । यथा चायमेक एवैकसमये उपयोग उपपद्यते तथा विशेषावश्यकादिषु श्रीजिनभद्रक्षमाश्रमणादिभि पूर्वसूरिभिः सप्रपञ्चमुपदर्शित इति नेहोपदीते, ग्रन्थगौरवभयात्। द्वितीयपक्षानुपपत्तिनोदनात्वनभ्युपगतोपालम्भत्वादाकाशरोमन्तनमिव केवलं भवतः प्रयासकारिणीति ।। अथ धर्माचार्यावर्णवादमाह[भा.१३०५] जच्चाईहि अवन्नं, भासइ वट्टइन यावि उववाए।
अहितो छिद्दप्पेही, पगासवादी अननुकूलो ।। कृ-जात्या आदिशब्दात्कुलादिभिश्च सद्भिरसद्भिर्वादोषैरवर्णं भाषते, यथा-नतेविशुद्धजातिकुलोत्पन्नाः, नवा लोकव्यवहारकुशलाः, नाप्येतेऔचित्यं विदन्तीत्यादि।नचापिवर्त्तते 'उपपाते' गुरूणां सेवावृत्तौ, अहितः' अनुचितविधायी, छिद्रप्रेक्षी' मत्सरितया गुरोर्दोषस्थाननिरीक्षणशीलः, 'प्रकाशवादी' सर्वसमं गुरुदोषमाषी, 'अननुकूलः' गुरूणामेव प्रत्यनीकः कूलवालकवत्, एष धर्माचार्यावर्णवादः ॥अथ सर्वसाधूनामवर्णवादमाह[भा.१३०६] अविसहणाऽतुरियगई, अनानुवत्तीय अवि गुरूणं पि।
खणमित्तपीइ-रोसा, गिहिवच्छलकाऽइसंचइआ ।। वृ-अहो! अमीसाधवः अविषहणाः' नकस्यापिपराभवंसहन्ते, अपितुस्वपक्ष-परपक्षापमाने सञ्जाते सति देशान्तरं गच्छन्ति, "तुरियगई"त्ति अकारप्रश्लेषाद् ‘अत्वरितगतयः' मायवा लोकावर्जनाय मन्दगामिनः 'अननुवर्तिनः' प्रकृत्यैव निष्ठुराः 'गरूणामपि' महतामपि, आस्तां सामान्यलोकस्येत्यपिशब्दार्थः, द्वितीयोऽपिशब्दः सम्भावनायाम, सम्भाव्यन्त एवंविधा अपि साधव इति, 'क्षणमात्रप्रीति-रोषाः' तदैव रुष्टास्तदैव च तुष्टा अनवस्थितचित्ता इत्यर्थः, 'गृहिवत्सलाः' तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोयन्ति, ‘अतिसञ्चयिनः' सुबहुवस्त्रकम्बल्यादिसङ्ग्रहशीलाः लोभबहुला इति भावः । अत्र निर्वचनानि-इह साधवः स्वपक्षाद्यपमाने यद् देशान्तरं गच्छन्ति तद् अप्रीतिक-परोपतापादिभीरुतया न पराभवासहिष्णुतया, अत्वरितगतयोऽपि स्थावरत्रसजन्तुपीडापरिहारार्थं न तु लोकरञ्जनार्थम्, अननुवर्तिनोऽपि संयमबाधाविधायिन्या अनुवर्तनाया अकरणात्न प्रकृतिनिष्ठुरतया, क्षणमात्रप्रीति-रोषा अपि प्रतनुकषायतया नानवस्थितचित्ततया, गृहिवत्सला अपि ‘कथं नु नामामी धर्मदेशनादिना यथाऽनुरूपोपायेन धर्मं प्रतिपद्येरन् ?' इति बुध्या न पुनश्चाटुकारितया, सञ्चयवन्तोऽपि “मा भू उपकरणाभावे संयम-प्रवचना-ऽऽत्मविराधना' इति बुध्या न तु लोभबहुलतयेति ।।
अथ मायिद्वारमाह[भा.१३०७] गूहइ आयसभावं, घाएइ गुणे परस्स संते वि ।
चोरो व्व सळसंकी, गूढायारो वितहभासी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org