________________
उद्देशक : १, मूलं-६, [भा. १२९४]
३४३ वृयः ‘संयतोऽपि' व्यवहारतः साधुरप्येताभिरप्रशस्ताभिर्भावनाभिः, गाथायां तृतीयार्थे सप्तमी, 'भावनम्' आत्मनो वासनं करोति सः तद्विधेषु तादृशेषुकान्दर्पिकादिषु सुरेषु गच्छति। यस्तु 'चरणरहितः' सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा सः 'भाज्यः' तद्विधेषु वा देवेषूत्पद्यते नरक-तिर्यङ्-मनुष्येषु वा ।। अथासामेव प्ररूपणां चिकीर्षु प्रथमतः कन्दर्पभावनां प्ररूपयति[भा.१२९५] कंदप्पे कुक्कुइए, दवसीले याविहासणकरे य।
विम्हार्वितोय परं, कंदप्पं भावनं कुणइ ।। कृइह कन्दर्पशब्देनकन्दर्पवानुच्यते, एवं कौत्कुच्यवान्द्रवशीलश्चापिहासनकरश्चविस्मापर्यंश्च परं कान्दी भावनां करोतीति सङ्ग्रहगाथासमासार्थः ।। अथ विस्तरार्थमाह[भा.१२९६] कहकहकहस्स हसणं, कंदप्पो अनिहुया यसलावा।
कंदपकहाकहणं, कंदप्पुवएस संसा य ।। वृ-"कहकहकहस्स"त्ति तृतीयार्थे षष्ठी, 'कहकहकहेन' उच्चैःस्वरेण विवृतवदनस्य यद् हसनम्-अट्टहास इत्यर्थः, यश्च कन्दर्प स्वानुरूपेण सहपरिहासः, येच अनिभृताः' निष्ठुरवक्रोक्त्यादिरूपागुर्वादिनाऽपि समं संलापाः, यच्च कन्दर्पकथायाः-कामसम्बद्धायाः कथायाः कथनम्, यश्च कन्दर्पस्योपदेशः-'इत्थमित्तं कुरु' इति विधानद्वारेण कामोपदेशः, या च 'शंसा' प्रशंसा कामविषया, एष सर्वोऽपि कन्दर्प उच्यते ।। गतं कन्दर्पद्वारम् । अथ कौत्कुच्यद्वारमाह[भा.१२९७] भुम-नयण-वयण-दसणच्छदेहि कर-पाद-कन्नमाईहिं ।
तंतं करेइजह हस्सए परो अत्तणा अहसं॥ वृ-कुत्कुचः-भण्डचेष्टः तस्य भावः कौत्कुच्यं तद् विद्यते यस्य स कौत्कुच्यवान् । स च द्वेधाकायेन वाचा च । तत्र भ्रू-नयन-वदन-दशनच्छदैः कर-चरण-कर्णादिभिश्च देहावयवैस्तां तां चेष्टामात्मना अहसन्नेव करोति यथा परो हसति एष कायकौत्कुच्यवानुच्यते ।। [भा. १२९८] वायाकोकुइओ पुण, तं जंपइ जेण हस्सए अन्नो।
नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ॥ वृ- वाचा कौत्कुच्यवान् पुनस्तत् किमपि परिहासप्रधानं वचनं जल्पति येनाऽन्यो हसति, नानाविधानां वा मयूर-मार्जार-कोकिलादीनां जीवानां रुतानि-कूजितानि 'मुखतूर्याणि वा' मुखेनातोद्यवादनलक्षणानि तथा करोति यथा परस्य हास्यमायाति ॥ अथ द्रवशीलमाह[भा.१२९९] भासइ दुयं दुयं गच्छए अदरिउ व्व गोविसो सरए।
सव्व यदुयकारी, फुट्टइ व ठिओ वि दप्पेणं । वृ-'द्रुतंद्रुतम् असमीक्ष्य सम्भ्रमावेशवशायो भाषते । यश्च द्रुतं गच्छति, क इव? इत्याहशरदि दर्पित इव' दर्पोभुरइव 'गोवृषः' बलीवर्दविशेषः । शरदिहिप्रचुरचारिध्राणतयामक्षिकाद्युपद्रवरहिततयाचगोवृषो मदोद्रेकादुच्छ्सलः पर्यटतीति, एवमसावपि निरङ्कुशस्त्वरितं त्वरितं गच्छति। यश्च सर्वद्रुतद्रुतकारी' प्रत्युपेक्षणादीनां सर्वासामपि क्रियाणामतित्वरितकारी । यश्च दर्पण तीव्रोद्रेकवशात् स्फुटतीव स्थितोऽपि स्वभावस्थोऽपि सन्, गमनादिक्रियामकुर्वन्नपीत्यर्थः । एष द्रवशील उच्यते ।। अथ हासकरमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org