________________
३४२
बृहत्कल्प-छेदसूत्रम् -१-१/६ __ अब्मास भावन त्ति य, एगढ़ तत्थिमा भावे॥ वृ-इहधानुष्को यद् अभ्यासविशेषात् प्रथमस्थूलद्रव्यं ततोवालबद्धांकपर्दिकांततः सुनिर्मातः स्वरेणापि लक्ष्यस्य वेधं करोति, यच्चाऽश्वः शीघ्रं शीघ्रतरं धावमानः शिक्षाविशेषाद् महदपि गादिकं लक्ष्यति, हस्ती वा शिष्यमाणः प्रथमंकाष्ठानिततः क्षुल्लकान् पाषाणान्ततो गोलिका तदनु बदराणि तदनन्तरं सिद्धार्धानप्यभ्यासातिशयाद् गृह्णाति, प्लवको वा प्रथमं वंशे विलग्नः सन् प्लवते ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति, आदिशब्दाचित्रकरादिपरिग्रहः । एताः सर्वा अपि द्रव्यभावनाः । अभ्यास इति वा भावनेति वा एकार्थम् । तत्रैता वक्ष्यमाणलक्षणाः 'भावे' भावतो भावना मन्तव्याः ॥ता एवाह[भा.१२९१] दुविहाओ भावनाओ, असंकिलिट्ठा य संकिलिट्ठा य ।
मुत्तूण संकिलिट्ठा, असंकिलिट्ठाहि मावंति॥ वृ-द्विविधाश्च भावतो भावनाः । 'असंक्लिष्टाः' शुभाः 'संक्लिष्टाश्च' अशुभाः । तत्र मुक्त्वा संक्लिष्टभावना असंक्लिष्टाभिर्भावनाभिर्भावयन्ति जिनकल्पं प्रतिपित्सव इति ।।
अथ कास्ताः संक्लिष्टभावनाः ? इत्याशङ्कापनोदाय तत्स्वरूपमभिधित्सुराह[भा.१२९२] संखा य परूवणया, होइ विवेगोय अप्पसत्थासु।
एमेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ ॥ वृ-अप्रशस्तभावनानां सङ्ख्या पञ्चेति लक्षणा निरूपणीया ! प्ररूपणा च तासां कर्त्तव्या । तासां चाप्रशस्तानां 'विवेकः' परिहारो भवति । एवमेव प्रशस्तास्वपि' तपःप्रभृतिभावनासु सङ्ख्या प्ररूपणा च वक्तव्या । नवरं “जत्य विवेगो''त्ति यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रष्टव्याः; ता विवेक्तव्याः- परित्याज्या इति भावः । “गुणा तत्य" ति यास्तु प्रशस्ता भावनाः तासुभाव्यमानासुगुणाः-खेद-विनोदादयः प्रागुक्ताभवन्तीति चूर्ण्यभिप्रायेण व्याख्यानम्। विशेषचूर्ण्यभिप्रायः पुनरयम्-यत्रच प्रशस्तेऽपिवस्तुनि विवेकः परित्यागोऽस्यघटते तत्रगुणा एव भवन्ति । यथा-आचार्यादीनामवर्णमाषण-श्रवणे औदासीन्यमवलम्बमानस्याप्यस्य गुणएव भवति, न पुनः स्थविरकल्पिकस्येव यथाशक्ति तन्निवारणमकुर्वतो दोष इति ।
अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाह[भा.१२९३] कंदप्प देवकिदिवस, अभिओगा आसुरा य सम्मोहा।
एसाय संकिलिट्ठा, पंचविहा भावना भणिया॥ वृ-कन्दर्पः-कामस्तप्रधानाःषिङ्गप्राया देवविशेषाः कन्दा उचयन्ते तेषामियं कान्दी एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्माणश्चण्डालप्रायास्तेषामियं दैवकिल्विषी। आ-समन्ताद् आभिमुख्येन (वा) युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः-किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी। असुरा:-भवनपतिदेवविशेषास्तेषामियमासुरी। सम्मुह्यन्तीति सम्मोहाः-मूढात्मानो देवविशेषास्तेषामियं साम्मोही । गाथायां प्राकृतत्वाद् आपप्रत्ययः । एषा अप्रशस्ता पञ्चविधा भावना तत्तत्स्वभावाभ्यासरूपा भणिता ॥अथासामेव फलमाह[भा.१२९४] जो संजओ विएआसु अप्पसत्थासुभावनं कुणइ ।
सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीनो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org