________________
३४०
बृहत्कल्प-छेदसूत्रम् -१-१/६ स्याद् बुद्धि-द्वे अप्येते अभ्युद्यतरूपतया श्रेयसी, अतः कतरदनयोः प्रतिपत्तव्यम् ? उच्यते[भा.१२८४] सयमेव आउकालं, नाउं पोच्छित्तु वा बहु सेसं ।
सुबहुगुणलाभकंखी, विहारमब्भुजयं भजइ॥ वृ-स्वयमेवायुःकालं सातिशयश्रुतोपयोगाद् 'बहु' दीर्घं 'शेषम्' अवशिष्यमाणं ज्ञात्वा पृष्टवा वाऽन्यं श्रुताद्यतिशययुक्तमाचार्यंबहुशेषमवबुध्यततः सुबहुगुणलाभकाङ्क्षसन् विहारमभ्युद्यतं 'भजति' प्रतिपद्यत इत्यर्थः । इह चायं विधि-यदिस्तोकमेवायुरवशिष्यते ततः पादपोपगमादीनामेकतरमभ्युद्यतमरणं प्रतिपद्यते, अथ प्रचुरमायुः परं जवाबलपरिक्षीणस्ततो वृद्धावासमध्यास्ते, अथाऽऽयुदीर्घनचजङ्घाबलपरिक्षीणस्तदाऽभ्युद्यतविहारं प्रतिपद्यत इति ।। गतमवयवच्छित्तिमनोद्वारम्।अथपञ्चतुलनेति द्वारम्-पञ्चानाम्-आचार्योपाध्याय-प्रवर्तकस्थविर-गणावच्छेदकानां तुलना भति, यथा-त्रयाणामभ्युद्यत (मरण-वृद्धावासा-ऽभ्युद्यत) विहाराणां कतरं प्रतिपद्यामहे ? । इह चैत एव प्रायोऽभ्युद्यतविहारस्याधिकारिण इत्यं विधिं करोति[भा.१२८५] गणनिक्लेवित्तरिओ, गणिस्स जो व ठविओ जहिं ठाणे।
उवहिं च अहागडयं, गिण्हइ जावऽन्न नुप्पाए॥ वृ-'गणिनः' आचार्यस्य गणनिक्षेपः इत्वरः परिमितकालीनोभवति, यो वाउपाध्यायादिर्यत्र 'स्थाने पदे स्थापितःस तत्पदमात्मतुल्यगुणेसाधावित्वरनिक्षेपेण निक्षिपति आहकिमर्थमसावित्वरं गणादिनिक्षेपं विदधाति ? न यावज्जीविकम् ? उच्यते-इह चक्रष्टकविवरगामिना शिलीमुखेन वामलोचनेपुत्रिकायावेधनमिव दुष्करंगणाधनुपालनम्, अतः पश्यामस्तावत्- 'एतेऽभिनवाचार्यप्रभृतयः किमस्य गणादेरनुपालनं कर्तुं यथावदीशते वा? न वा?, यदि नेशते ततो मया न प्रतिपत्तव्यो जिनकल्पः, यतो जिनकल्पानुपालनादपि श्रेष्ठतरमितरस्य तथाविधस्याभावेसूत्रोक्तनीत्या गणाद्यनुपालनम्, बहुतरनिर्जरालाभकारणत्वात्, न च बहुगुणपरित्यागेन स्वल्पगुणोपादानं विदुषां कर्तुमुचितम्, सुप्रतिष्ठितकार्यारम्भकत्वात् तेषाम्' इत्यभिसन्धाय स भगवानित्वरं गणादिनिक्षेपं विदधातीति । उक्तञ्च पञ्चवस्तुकशास्त्रे इहैव प्रक्रमे श्रीहरिभद्रसूरिपूज्यैः
पिच्छामु ताव एए, केरिसगा होति अस्स ठाणस्स? ।
जोगाण वि पाएणं, निव्वहणं दुक्कर होइ॥ न य बुहुगुणचाएणं, घेवगुणपसाहणं बुहजणाणं ।
इटें कयाइ कजं, कुसला सुपइट्ठियारंभा ॥ अथोपकरणद्वारमाह-"उवहिंच" इत्यादि । यावद् ‘अन्यं जिनकल्पप्रायोग्यंशुढेषणायुक्तं प्रमाणोपेतंच 'उपधि' वस्त्रादि नोत्पादयति तावद् यथाकृतमेव गृह्णाति । ततः स्वकल्पप्रायोग्ये उपकरणे लब्धे सति प्राक्तनमुपकरणं व्युत्सृजतीति ।गतमुपकरणद्वारम् । अथ परिकर्मद्वारम्परिकर्मेतिवाभावनेति वा एकार्थम्।ततोऽयमात्मानं भावनाभिसम्यग्भावयति।आह सर्वेऽपि साधवस्तावद् भावितान्तरात्मानो भवन्ति अतः किं पुनर्भावयितव्यम् ? उच्यते[भा.१२८६] इंदिय-कसाय-जोगा, विनियमिया जइ विसव्वसाहूहिं ।
तह विजओ कायव्यो, तज्जयसिद्धिं गणितेनं ॥ वृ-यद्यपिसर्वसाधुभिरिन्द्रिय-कषाय-योगा विविधैः प्रकारैर्नियमिताः-जितास्तथापिजिनकल्पं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org